पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


३०२
[हलन्तपुलिङ्गे
सिद्धान्तकौमुदीसहिता

४३९ । न मु ने । (८-२-३)

नाभावे कर्तव्ये कृते च मुभावो नासिद्ध स्यात् । अमुना, अमूभ्याम् अमूभ्याम् । अमूभ्याम् । अमीभि । अमुष्मै । अमीभ्य । अमुष्मात् । अमुष्य, अमुयो’, अमीषाम् । अमुष्मिन्, अमुयो , अमीषु ।

इति सान्ता ।

इति हलन्तपुल्लिंङ्गप्रकरणम् ।


त्वारोपः उच्यते । निराधिष्ठानश्चासिद्धत्वारोपो न सम्भवति । ततश्च कार्यासिद्धत्वपक्षे सूत्रोदा हरणसम्पत्यै परत्वाल्लक्ष्ये कार्यप्रवृतेरावश्यकतया परत्वात् त्रैपादिके मुत्वे कृते सति, तेन उत्व स्थानि अकारस्यापहारे सति, पश्चात् मुत्वे अभावप्रतियोगित्वारोपेऽपि, “देवदत्तस्य हन्तरि हते सति देवदत्तस्य न पुनरुन्मज्जनम्' इति न्यायेन स्थानिभूतस्य दकारादकारस्याभावात् वृद्धिगुणादि न स्यात् । शास्त्रासिद्धत्वपक्षे तु यद्यत् त्रैपादिक शास्त्र प्रवृत्त्युन्मुख तत्तच्छास्त्र एवाऽभावारोपसम्भवात् पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्या 'विप्रतिषेधे पर कार्यम्' इति न प्रवर्तते । तदुक्त 'पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति । ततश्च स्थानि अकारस्य निवृत्त्यभावात् वृद्धिगुणादिप्रवृत्ति निर्बाधा । एतच 'पूर्वत्रासिद्धम् इत्यत्र * अच परस्मिन् ’ इत्यत्र ' षत्वतुकोरसिद्ध ' इत्यत्र च भाष्ये स्पष्टम् । प्रपञ्चितञ्च शब्देन्दुशेखरे शब्दरत्रे च इत्यास्तान्तावत् । अमुमिति ॥ अदस् अम् इति स्थिते यदा द्यत्व, पररूप, अमि पूर्व, उत्वमत्वे, इति भाव । अमू इति ॥ द्वितीयाद्विवचन प्रथमाद्विवचनवत् ।अमूनिति ॥ शसि त्यदाद्यत्व, पररूप, पूर्वसवर्णदीर्घ, नत्व, उत्वमत्वे इति भाव । तृतीयैक वचने अदस आ इति स्थिते त्यदाद्यत्व, पररूप, उत्वमत्वे च सिद्धवत्कृत्य आह । मुत्वे कृते धिसंज्ञायान्नाभावः इति ॥ ‘शेषोघ्यसखि'इति घिसज्ञायाम् ‘आडो नाऽस्त्रियाम्' इति नाभाव इत्यर्थ । ननु 'पूर्वत्रासिद्धम्' इति विभक्तिकार्य प्राक् पश्चात् उत्वमत्वे इति प्रागुक्तम् । सम्प्रति तु मुत्वे कृते घिसज्ञायान्नाभाव इत्युच्यते । तदिद पूर्वापरविरुद्धमिति चेत्, सत्यम् । यद्विभ क्तिकार्य प्रति मुत्वन्निमित्त तदेव विभक्तिकार्य प्राक् भवति, न त्वन्यदिति विवक्षितम् । इह च नाभाव प्रति मुत्वन्निमित्तमिति प्रथम मुत्वप्रवृतेरविरोध । “न मु ने' इत्यारम्भसामर्थ्या दित्यलम् । ननु कृतेऽपि प्रथम मुत्वे नाभावो न सम्भवति । तस्मिन् कर्तव्ये मुत्वस्य आसिद्ध तया घे परत्वाभावादित्यत आह । न मु ने ॥ असिद्धमित्यनुवर्तते । म् च उश्चेति समाहारद्वन्द्व । ने इति न इत्यस्य सप्तम्येकवचनम् । विषयसप्तमी सति सप्तमी च एषा । तथाच नाभावे कर्तव्ये कृते च इति लभ्यते । तदाह । नाभावे इत्यादिना ॥ प्रकृते च नाभावे कर्तव्ये मुत्वस्याऽसिद्धत्वाभावात् घे परत्वान्नाभावो निर्बाध । यदि तु नाभावे कर्तव्ये मुभावो नासिद्धइत्येवाश्रीयते। तर्हि प्रकृते नाभावे “सुपि च' इति दीर्घ प्रसज्येत । दीर्घे कर्तव्ये मुत्वस्याऽसि