पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


सकारान्तप्रकरणम्]
२९३
बालमनोरमा ।

(सू ३८१) इति दस्य स । असौ । “ औत्त्वप्रतिषेध साकच्कस्य वा वक्तव्य सादुत्वं च' (वा ४४८२) । प्रतिषेधसन्नियोगशिष्टमुत्वं तद्भावे न प्रवर्तते । असकौ—असुक । त्यदाद्यत्वं, पररूपम्, वृद्धि । “ अदसोऽसे –' (सू ४१९) इति मत्वोत्वे । अमू । “जस शी' (सू २१४) । “आद्गुण '(सू६९) ।

४३८ । एत ईड्हुवचने । (८-२-८१)

अदसो दात्परस्य एत ईत्स्याद्दस्य च मो बह्वर्थोक्तौ । अमी । * पूर्वत्रा सिद्धम्’ (सू १२) इति विभक्तिकार्य प्राक् , पश्चादुत्वमत्वे । अमुम् , अमू, अमून् । मुत्वे कृते घिसज्ञायां नाभाव ।


परिभाषालभ्यम् । सकारस्य औत्वे कृते हल परत्वाभावात् हल्डयादिलोपे अप्राप्त सुलोप विधि । दस्य स. इति ॥ मुत्वापवाद इति भाव । असौ इति ॥ अदस् स् इति स्थिते सकारस्य औत्वे, सुलोपे, दस्य सत्वे च रूपम् । अथ “अव्ययसर्वनाम्नाम्' इत्यकचि अदकस्शब्दात् सौ विशेषमाह औत्वप्रतिषेधः इति ॥ 'अदस औ सुलोपश्च' इत्यत्र अदश्शब्देन तन्मध्यपतितन्यायेन अदकस्शब्दस्यापि ग्रहणादोत्त्वे प्राप्ते विकल्पेन तत्प्रतिषेधेो वक्तव्य । “तदो स सौ' इति दकारस्य सकारे कृते तस्मात् सकारात् परस्य अकारस्य उकारश्च वा वक्तव्य इत्यर्थ । ततश्च अदकस् स् इति स्थिते, औत्वाभावे, दस्य सत्वे सति, सकारात् परस्य अकारस्य उत्वे सति, यदाद्यत्वे, पररूपे, रुत्वे, विसर्गे, असुक इति रूपम् । औत्वप्रतिषेधाभावपक्षे अदक स् इति स्थिते, सकारस्य औत्वे, सुलोपे, दस्य सत्वे, असकौ इति रूप वक्ष्यति । तत्र औत्त्वप्रतिषेधाभावपक्षे औत्वे कृते सकारादकारस्य उत्त्वविकल्प कुतो न स्यादित्यत आह । प्रतिषेधेति ॥ 'सन्नियोगशिष्टाना सह वा प्रवृत्तिस्सह वा निवृत्ति' इति न्यायादिति भाव । अमुक अमुकशर्मा इत्यादि त्वसाध्वेवेत्याहु । क्वेचित्तु अद सूशब्दपर्याय अमुकशब्द अव्युत्पन्न इत्याहुः । अदस् औ इति स्थिते प्रक्रिया दर्शयति । त्यदाद्यत्वमिति ॥ पररूपमपि बोध्यम् । मत्वोत्वे इति ॥ अदौ इत्यत्र दात् परस्य औकारस्य दीर्घ ऊकार दस्य मत्वञ्चेत्यर्थ । जसि त्यदाद्यन्व पररूपञ्च सिद्धवत्कृत्य आह । जसश्शीति ॥ आद्गुणे अदे इति स्थितम् । तत्र दकारादेकारस्य ऊत्वे प्राप्ते । एत ईद्वहुवचने ।। “अदसोऽसेर्दादु दो म' इत्यस्मात् अदसो दादिति दो म इति चानुवर्तते । तदाह । अदसः इत्यादिना ॥ बह्वर्थोक्ताविति ॥ सूत्रे बहुवचनशब्दो यौगिक । पारिभाषि कस्य ग्रहणे तु अमीभिरित्यादिसिद्धावपि अमी इति न सिध्येत् । अदे इत्येकारस्य बहुवचन तया तत्परकत्वाभावादिति भाव । ननु औजसादिषु त्यदाद्यत्वे पररूपे च उत्वमत्वयो कृतयो अमुऔ अमुअ. इत्यादि स्यात् । मुत्वस्यासिद्धत्वान्न यणित्याशङ्कय आह । पूर्वत्रेति विभक्तिकार्यमिति ॥ यदाद्यत्वादिकमित्यर्थ । यदि तु “पूर्वत्रासिद्धम्’ इत्यत्र कार्यासिद्धत्व मिष्येत, तर्हि अमू अमी इत्यादि न सिध्येत् । तथा हि * पूर्वत्रासिद्धम्' इति सिद्धे असिद्ध