पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


सकारान्तप्रकरणम्]
३०३
बालमनोरमा ।

द्वतया अकारसत्वात् । अत कृतेऽपीत्याश्रितम् । ततश्च प्रकृते नाभावे कृतेऽपि दीर्घे कर्तव्ये मुत्वस्यासिद्धत्वाभावादकाराभावात् न दीर्घ इति भाव । अमूभ्यामिति ॥ त्यदाद्यत्वे, पररूपे, सुपि च' इति दीर्घे, दस्य मत्व आकारस्य ऊत्वम् इति भाव । अमीभिरिति ॥ त्यदा द्यत्व पररूप “नेदमदसोरको ' इति ऐस्निषेध , “बहुवचने झत्येत्' इत्येत्व, “एत ईद्वहु वचने' इति ईत्वमत्वे इति भाव । अमुष्मै इति । त्यदाद्यत्व, पररूप, डे स्मै, उत्वमत्वे, षत्वमिति भाव । अमीभ्यः इति ॥ त्यदाद्यत्व, पररूप ‘बहुवचने झल्येत्’ इत्येत्वम्, ईत्वमत्वे इति भाव । अमुष्मादिति ॥ त्यदाद्यत्व, पररूप, डसे स्मात् उत्वमत्वे, षत्वमिति भाव । अमुष्येति । त्यदाद्यत्व, पररूप, डस स्यादेश, उत्वमत्वे, षत्वमिति भाव । अमुयोरिति ॥ ओमि त्यदाद्यत्व, पररूपम्, “ ओसि च' इत्येत्त्वम्, अयादेश, उत्वमत्वे, इति भाव । अमी षामिति। आमि त्यदाद्यत्व, पररूपम् ‘आमि सर्वनान्न' इति सुट्, एत्व, ईत्व, मत्व, षत्वमिति भाव । अमुष्मिन्निति ॥ डौं त्यदाद्यत्व, पररूप, डे स्मिन्नादेश, उत्वमत्वे, इति भाव । अमीष्विति ॥ सुपि त्यदाद्यत्व, पररूपम्, एत्वम्, ईत्वमत्वे, षत्वमिति भाव ॥ इति सान्ता । इति श्रीमद्वासुदेवदीक्षितविदुषा विरचिताया सिद्धान्तकौमुदीव्याख्याया ३०३ बालमनारमाख्याया हलन्तपुलिङ्ग समाप्त ।