सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तकौमुदीसहिता [परिभाषा ३८ ॥ षष्ठी स्थानेयोगा । (१-१-४९) अनिर्धारेितसंबन्धविशेषा षष्टी स्थानेयोगा बोद्धया । स्थानञ्च प्रसङ्ग । ३९ । स्थानेऽन्तरतमः । (१-१-५०) विधौ मूलकारश्च वक्ष्यति । अङ्गस्य नुम्विधानात् तद्भक्तो हि नुम्, इति । षष्टी स्थानेयोगा॥ स्थान प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्यास्सा स्थानयोगा, निपातनात् सप्तम्या अलुक् । स्थानेन योगो यस्या इति विग्रह । निपातनादेत्वम् । इको यणचीलादौ षष्ठी स्थानरूपसम्बन्धार्थिकेल्यर्थ । लोके तावदेकशत षष्ठयर्था आथी यौना मैौखा खैौवाश्च । शब्दस्य शब्देन त्रय एव सम्बन्धा । आनन्तर्य सामीप्य प्रसङ्गश्वेत । तत्रान्यतमार्थनद्धारणार्थमिद सूखमिति भाष्यम् । ततश्च इको यणचील्यादौ इक इति षष्ठ्या स्थानमुच्यते । तस्मिन् प्रकृत्यर्थ इक् निरूपकतयाऽन्वेति । आचि परत इक प्रसङ्गे यण् स्यादिति विवरणवाक्ये त्वस्मिन् इक इति षष्ठी निरूपकतायामिति न पुनरुक्तिश्शक्या । यथा देवदत्तस्यावयव पाणिरिति । *ऊदुपधाया गोह? इत्यत्र तु गोह इति षष्ठी न स्थानार्थिका । उपधापदसमभिव्याहारेणावयवषष्ट्रीत्वनिर्द्धारणात् । परिभाषाणाञ्च अनियमे नियमनाथैमेव प्रवृत्ते । तदेतदाह । अनिद्धरितेत्यादिना ॥ अनिद्धारित सम्वन्धविशेष यस्या इति विग्रह । तदेवमुदाहृतप्रकृतभाष्यरीत्या इकोयणचील्यादी षष्ठी स्थानरूपसम्बन्धविशेषार्थिकेति स्थितम्। मतुप्सूत्रभाष्ये तु अनन्तरादयो न षष्ठयर्थी इति स्थितम् । एव सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ स्थाने इति सप्तम्यन्त पदमुपातष्ठत इति फलात । स्थाननार्थन योगो यस्या इति त्रितीयान्तविग्रहेतु अछ्याहृतस्थानपदार्थनिरूपितसम्बन्धार्थिकेत्यर्थ । अस्तेभैर्भवतीति सन्देहस्थाने अनन्तरे समीपे इल्यादिप्रकृतसूत्रभाष्यस्य तु अस्तरनन्तरे इल्यष्याहृतानन्तरादिपदार्थनिरूपितसम्बन्धा षष्ठीत्येवार्थ । अनन्तरादीना षष्ठयर्थत्वन्तु नास्त्येवेति प्रौढमनोरमाया हलन्त्यमिति सूत्रे स्थितम् । तद्वयाख्याने च शब्दरले शब्देन्दुशखरे च बहुधा प्रपचितम् । अनिद्धरितेति किम् । ऊदुपधाया इल्यत्र गोह इति षष्ठ्या स्थानार्थकत्वम्माभूत् । सतितु तत्त्रापि स्थानार्थकत्वे गोहोऽन्ल्यस्य उपधामात्रस्य च ऊत्स्यात्। ननु स्थानशब्द आधारवाची लेके प्रसिद्ध । यथा शिवस्थान कैलास विष्णुस्थान वैकुण्ठ इत्यादौ । एवश्व इको यणचीत्यादी षष्ठ्या स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेन अभेदेन'वा अन्वये सति इकोऽधिकरणे यण् स्यात इति इगधिकरणकी यण् स्यादिति वा अर्थस्स्यात्। तत इको निवृत्तिर्नस्यादिल्यत आह । स्थानश्च प्रसङ्ग इति । कचिदाभिचारेछौ दर्भाणा स्थाने शरै प्रस्तरितव्यमिल्यत्र स्थानशब्दस्य प्रसङ्गे दर्शनादिति भाव । एवञ्च तत्र यथा शरैर्दर्भानिवर्तन्ते तद्वदिकोयणाचील्यादावपि यणादिभिरिगादयो निवर्तन्ते । तत्र च य प्रसक्तो निवर्तते स स्थानीति व्यवाहूंयते । यो निवर्तयति स आदेश इति । स्थानेऽन्तरतमः ॥ स्थान प्रसङ्ग इत्युक्तं अन्तरशब्दोऽत्र सदृशपर्याय अतिशयितोऽन्तर अन्तरतम