ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्र “ अच.' इति षष्ठ्यन्तं पदमुपतिष्ठते ।
३६ । आद्यन्तौ टकितौ । (१-१-४६)
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्त ।
३७ । मिद्चेोऽन्त्यात्पर- । (१-१-४७)
अच ' इति षष्ठयन्तम् । अचा मद्धये योऽन्त्यस्तस्मात्परस्तस्यैवान्ता वयवो मित्स्यात् ।
इति यत्र विधीयत इत्यद्याहार्यम् । फलितमाह । हृस्वेत्यादिना ॥ 'दिव उत्’ इत्यादौ तु नेद प्रवर्तते । ह्रस्वादिशब्दाना अश्रवणात् “हूस्वो नपुसके प्रातिपदिकस्य’ इत्याद्युदाहरण।श्रीप । नेह सुपात् ब्राह्मणकुलम् । आद्यन्तौ टकितौ ।। अन्तशब्द प्रत्येक सम्बध्ध्यते । टकारादकार उच्चारणार्थे । टकौ इतैौ ययोस्तौ टकितौ । अन्तशब्द प्रत्येक सम्बद्धद्यते । टित्कितौ आद्यन्तावयवौ स्त । कस्येत्याकाक्षाया यस्य तौ विहितौ तयेरित्यर्थाल्लभ्यते। तदाह । टित्कितावित्यादिना ॥ क्रमादिति यथासख्यसूत्रलभ्यम् । टितू आद्यवयव कित् अन्ता वयव इत्यर्थ । नचैव सति मिळितयोरेकत्रान्वयाभावात् कथमिह द्वन्द्व इति वाच्यम् । प्रथ मतस्समुदायरूपेण परस्परयुगळयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्या यथासङ्खयसूत्रपर्यालो चनया पुन प्रत्येकान्वयोपपत्ते । एचोऽयवायाव इत्यादावप्येषैव गति । लोके त्वेवजातीयक प्रयोग असाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासख्यसूत्रोपन्यासो युक्त । “आर्धधातुक स्येड़्बलादे ' भविता। “ड्णो कुक् टुक् शरि' प्राङ्क्षष्ठ इत्याद्युदाहरणम् । पुरस्तादप वादा अनन्तरान् विवीन् बाधन्ते नोत्तरानिति षष्ठी स्थाने योगेत्यस्यानन्तरस्यैवायमप वाद । ‘प्रत्यय परश्च' इत्यनेन तु परत्वादिद बाध्द्यते । तेन चरेष्ट , गापोष्टक्, इत्यादय परा एव भवन्ति । मिदचोन्त्यात्परः ॥ मकार इत् यस्य स मित् अन्त्यादच परो भव तीत्यर्थे “शे मुचादीनाम्' इत्यादाविदन्नप्रवर्तेत । तत्रान्तस्याचोऽभावात् । अत आह । अच इति षष्ठश्यन्तमिति । यतश्च निर्द्धारणमित्यनेनेति शेष । अन्च इत्येकत्वमविवक्षितम्। तदाह । अचाम्मद्धय इत्यादिना । अन्तावयव इति ॥ एतच्च आद्यन्तावित्यत अन्त ग्रहणानुवृत्या लभ्यते । आद्यन्तशब्दैकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनानुवृति सम्भवात् । आदिग्रहणमनुवृत्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने ‘सर्वनामस्थाने चा सम्बुद्धौ' इति नान्ताङ्गस्य विहितो दीघन सिध्ध्येत्। अभक्तत्वे तु वहलिह इत्यत्र “वहाम्रे लिह इति खशि अरुर्द्विषदिति मुमि तस्य ‘मोनुस्वार'इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात् । वस्तुतस्तु, यस्य समुदायस्य मिद्विहित तस्याचाम्मध्द्ये योऽन्त्यस्तस्मात्पर तस्य समुदायस्य अन्तावयव इति व्याख्येयम् । अत एव समुदायभक्तो मिदिति भाष्य सङ्गच्छते । समासाश्रय