३३ । दीर्घ च । (१-४-१२)
दीर्घ च गुरुसंज्ञ स्यात् ।
॥ इति सज्ञाप्रकरणम् ।
अथ परिभाषाप्रकरणम्
३४ । इको गुणवृद्धी । (१-१-३)
गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्र 'इक ' इति षष्ठयन्तं पदमुपतिष्ठते ।
३५ । अचश्च । (१-२-२८)
पर इत्यादिना ॥ दीर्घञ्च ॥ सयोग इति नानुवर्तते । दीर्घमपि गुरुसज्ञकमित्यर्थ । इति सज्ञाप्रकरणमिति ॥ सन्धिकार्योपयेोगिप्रथमाध्द्यायस्यसज्ञानिरूपण समाप्तमिल्यथै । इको गुणवृद्धी ॥ इक इति षष्ठयन्तशब्द स्वरूपपर नपुसकलिङ्ग प्रथमैकवचनान्त । सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घ न । इकस् शब्द इत्यर्थ । उपतिष्ठत इति शेष वृद्धिरादैच्’ “ अदेङ्गुण' इत्यतो वृद्धिरिति गुण इति चानुवर्तते । इति शब्दोऽद्याहार्य । यत्र विधीयते तत्रेत्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धी विधीयेते तत्र इक इति षष्ठयन्त पदमुपतिष्ठत इति योजना । तदाह । गुण वृद्धिशब्दाभ्यामित्या दिना । उपतिष्ठत इति ॥ सङ्गत भवतीत्यर्थ । उपाद्देवपूजासङ्गतिकरणेत्यात्मनेपदम् । सोऽय पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तित । “सार्वधातुकार्धधातुकयो ' 'मिदेर्गुण ’, इत्या द्युदाहरणम् । इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभविष्यति । यत्र विधीयेते इत्युक्त्या वृद्धिर्यस्याचामित्याद्यनुवादे इकइति नोपतिष्ठते । अनुवादे परिभाषाणामनुपस्थिते, * ‘त्यदादीनाम इत्यादावपि नेदमुपतिष्ठत । तत्र गुणवृद्धिशव्दयोरश्रवणात् । अचश्व ॥ अच इत्यपि षष्ठयन्तशब्द स्वरूपपर । पूर्वसूत्र इक इतिवत्। ऊकालोजित्यत हूस्वदीर्घप्लुत इत्यनुवर्तते
अत्रेद तत्वम् । अनुवादे परिभाषा नोपतिष्ठते इत्यत्रानुवादपद अनूद्यमानविशेषणपरम् । एवञ्च “अनूद्यमानविशेषणेषु परिभाषा नोपतिष्ठते’ इति, निष्कर्ष । ‘वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ इति वृद्धसज्ञाविधायकसूत्रे वृद्धिशब्दस्य अनूद्यमानविशेषणत्वेनोपात्तत्वात् तत्र “इको गुणवृद्धी इति परिभाषाया अनुपस्थानात् शालीय , मालीय , इत्यादि लक्ष्य सिध्द्यति । यदि तत्र इक्परि भाषा उपतिष्ठत, तदा औपगवीय इत्याद्येव सिध्द्येत् । तत्रैव औकाररूपवृद्धे उकाररूपेक्स्थानि कत्वात्। नतु शालीय मालीय इत्यादौ । तत्र आकाररूपाया वृद्धेरतथात्वात् । तथैव ‘अतो गुणे इत्यनुवाद्यविशेषणस्थलेपीक्परिभाषोपस्थितौ, एधे, पचे, यजे, इत्यादावेव पररूप स्यात् । अत्र एकाररूपगुणानामिक्स्थानिकत्वात् । नतुपचतीत्यादौ । तत्र अकाररूपगुणस्य इक्स्थानिकत्वा भावादित्यपि बोध्द्यम् ।