पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२९
बालमनोरमा



प्रसङ्गे सति सदृशतम आदेशः स्यात् । “यत्रानेकविधमान्तर्य तत्र स्थानत

आन्तर्य बलीय ' (प १४) ।

४० । तस्मिन्निति निर्दिष्टे पूर्वस्य । (१-१-६६)


तदाह । प्रसङ्गे सतीत्यादिना । एकस्य स्यानिन अनेकादेशप्रसङ्गे सति य स्थानार्थगुणः प्रमाणत स्थानिना सदृशतम स एवादेशो भवतीत्यर्थ । अत्र स्थानशब्देन ताल्वादिस्थान विवक्षितम् । गुणशब्देन प्रयत्न्न । प्रमाणशब्देन एकृद्विमात्रादिपरिमाणम् । तत्र स्थानतो यथा । दूध्द्यत्र । तालुस्थानकस्य इकारस्य तालुस्थानको यकार । अर्थतो यथा । तृज्वत् क्रोष्टुरिति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन् अर्थसाम्यात् क्रोष्टुशब्द एव तृजन्त आदेशो भवति । गुणतो यया वाध्घरि । अत्र हकार स्थानी। घोषनादसवारमहाप्राणप्रनयत्नवान् । तस्य गकारसवर्णो भवन् चतुर्थो घकारो भवति । तस्य हकारेण स्थानिना घोषनादसवारमहाप्राणप्र यत्नसाम्यात् । ककारस्तु न भवति । तस्य श्वासाघोषविचाराल्पप्राणप्रयत्न्नकत्वात् । तथा खकारोऽ पि द्वितीयो न भवति । तस्य महाप्राणप्रयत्नसाम्येऽपि श्वासाघोषविवारप्रयत्नभेदात् । तथा तृती योऽपि गकारो न भवति । तस्य घोषनादसवारप्रयत्न्नसाम्येऽपि अत्पप्राणप्रयत्न्नभदात् । अत एव डकारो न भवति । नन्वत्र हकारस्य खकारो द्वितीय कुतो न स्यात् । तस्य स्थानिना हकारेण श्वासाघोषविवारप्रयत्न्नभेदे सत्यपि महाप्राणप्रयत्नसाम्यसत्वात् । तथा तृतीयो वा गकार कुतो न स्यात् । तस्य स्यानिना हकारेण अल्पप्राणप्रयत्न्नभेदेऽपि घोषनादसवारप्रयन्नसाम्यसत्वात् । अत एव डकारो वा कुतो न स्यादिति चेन्न । तमप् ग्रहणेन उक्तातिप्रसङ्गनिरासात् । अतिशयितो ह्यन्तर, अन्तरतम , अतिशयितञ्च प्रयत्न्नतस्सादृश्य हकारेण घकारस्यैव । उभयोरपि घोषनादसवारमहाप्राणात्मकप्रयत्न्नचतुष्टयसाम्येन सादृश्यातिशयसत्वात् । खकारस्य महाप्राणप्रयत्न्नसाम्येऽपि घोषनादसवारप्रयत्न्नविरहात् । गडयो घोषनादसवारप्रयत्न्नसाम्येऽपि महाप्राणप्रयन्नविरहात् । प्रमाणतो यथा। । “अदसोऽसेर्दादुदोम’ इति हूस्वस्य उकार . दीर्घस्य ऊकार । नन्वेवमपि चेतास्तोतेत्यत्र इकारस्य उकारस्य च सार्वधातुकार्ध धातुकयोरिति गुणो भवन् प्रमाणत आन्तर्यवानकार कुतो न स्यादित्यत आह । यत्रेति ॥ तेन इकारस्य एकार । उकारस्य ओकारश्च गुणो भवति । स्थानसाम्यात् । नत्वकार । स्थान भेदात्। नच इकारेण एकारस्य उकारेण ओकारस्य च कथ स्थानसाम्यम् । एकारस्य ओकारस्य च कण्ठस्थानाधिक्यादिति वाच्यम् । यावत्स्थानसाम्यस्य सावर्ण्यप्रयोजकत्वेऽपि आन्तरतम्यप रीक्षाया कथञ्चित् स्थानसाम्यस्यैव प्रयोजकत्वात् । अत्र सूत्रे पूर्वसूत्रात् स्थानेग्रहणमनुवर्तते। एकदेशे स्वरितत्वप्रतिज्ञाबलात् । तृतीयान्तञ्च विपरिणम्यते । अनुवर्त्यमानश्वाय स्थानशब्द पूर्वसूत्रे प्रसङ्गपरोऽप्यत्र ताल्वाद्यन्यतमस्थानपर । शब्दाधिकाराश्रयणात् । अन्तरतम इत्यपि तेन सम्बध्द्यते । ततश्च स्थानेनान्तरतम इति वाक्यान्तर सम्पद्यते । सति सम्भवे ताल्वादि स्थानत एवान्तरतमो भवतीत्यर्थ । ततश्च यत्रानेकविधमान्तर्य तत्र स्थानत एवान्तर्य बलीय इति भवति । तस्मिन्निति निर्दिष्टे ॥ इको यणचीत्यत्र अचि इक• यण्