पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/188

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । 8く8 डासडसोस्तु “ ऋत उत्' (सू २७९) इत्युत्त्वे लपरत्वे * सयोगान्तस्य लोप ' (सू ५४) । गमुलु । शाकुलू ; इत्यादि । इति लदन्ता । ॥ अथ एदन्तप्रकरणम् ॥ इना सह वर्तते इति से । सयौ । सय । स्मृते । स्मृतयौ । स्मृतयः. ।। इलेदन्ता । पूर्वसवर्णदीर्घ नत्वमिति भाव । डोसिङसोस्त्विति । गम्लु अस् इति स्थित 'ऋत उत्” लपर । गमुल्स् इति स्थिते “सयोगान्तस्य लेप ' गमुलू इति रूपम्। इत्यादीति ॥ गम्लुभ्याम् । गम्लाभ । गम्लुभ्य । गम्लुभ्य । आमि तु गमृणाम् । गमालि । गम्लो । गम्लघु । वस्तुतस्तु * उरणूपर |' इत्यत्र अजिति वक्तव्ये अण्ग्रहणसामथ्यात् अणूपूर्वेगैवेत्युत्त भाष्ये । यदि लुकारस्य यण्लकार स्यातू, तर्हि लपरत्वार्थ परेणाण्ग्रहणस्यावश्यकत्वात् तदसगतिस्स्पट्टैव । तस्मादेवञ्जातीयकाना प्रयोगो न भाष्यसम्मत इल्याहु । इति लुदन्ता । अथ एदन्ता निरूप्धन्ते । इनेति ॥ अ विष्णु तस्यापलम् इ । 'अत इछ् ।' “यस्थति च' इत्यकारलोप । इना सहेल्यर्थे 'तेन सहेति तुल्ययोगे ” इति बहुत्रीहि । “ वोपसर्जनस्य ' इति सत्त्वम् । “आढुण' से इति रूपम् । ततस्सु, रुत्वविसगै । से । एव स्मृते । स्मृत इ येनेति विग्रहे 'अनेकमन्यपदार्ये? इति बहुव्रीहि । नच एकादेशस्य पूर्वान्तत्वात् से इत्यस्य अव्ययत्वात् “अव्ययादा'सुप.” इति लुकू शङ्कय । अव्ययामिति महासज्ञया लिङ्गाद्यनन्विताथैस्यैव अव्ययत्वात् । अजादौ अयादेश मत्वा आह । सयौ । सयः, इति । “एड् हृस्वात्' इति सम्बुद्धिलोप । हे से । नन्वेव सति हे हरे इल्यत्र सम्बुद्धिलोपो न स्यात् । सम्बुद्धि परनिमित्तमाश्रिलय प्रवृत्तस्य गुणस्य सम्बुद्धिविघातक सुलेप प्रति सन्निपातपरिभाषया निमित्तत्वायोगात्। नचैवसलेड्रहणवैयथ्र्थ शङ्कयम् । हे से, इत्यत्र चरितार्थत्वादिति चत् । श्रृणु । हे हरे, इल्यत्र सम्बुद्धिलेपस्य स्वेोपजीव्यगुणविघातकत्वमव नास्ति । सल्यपि तल्लोपे प्रलययलक्षणमाश्रिलय गुणस्य निबीधत्वात् । केचितु गुणात् सम्बुद्धे., इल्यनुक्ला “एड् हृस्वात् ' इत्युक्ते सन्निपातपरिभाषा वाधित्वापि सम्बुद्धिलोप प्रवर्तत इल्याहु । नच जसि सय इति कथम् । अन्तर्वर्तिविभक्तया से इत्यस्य पदत्वेनायादेश बाधित्वा “एड पदान्तात् इति पूर्वरूपापत्तेरिति वाच्यम् “उत्तरपदत्वे चापदादिविधौ” इति प्रतिषेधात् । उत्तरपदस्य तद्धष्टितस्य वा पदत्व कर्तव्ये अन्तर्वर्तिविभत्ते प्रत्ययलक्षण नास्तीति हि तदर्थः । सेनासेवकादिशब्दगतस्य से इल्यस्य अनुकरण वा अस्तु । तत्र जसि अयादेशस्य निबोधत्वात् ॥ इत्येदन्ता । ന്തത്ത്.