वैकल्पिकातिदेशादित्वे रपरत्वे, की । किरौ । किर. । ती । तिरौ । तिरः,
इत्यादि गीर्वत् । इत्वाभावपक्षे तु * ऋदुशनस् –' (सू २७६) इति
ऋतो डि– ' (सू २७५) इति च तपरकरणादनड्गुणौ न । कृ । क्रौ । क्र ।
कृम् । क्रौ । कृन् । क्रा । क्रे इत्यादि ।
इत्यृदन्ता
॥ अथ लृदन्तप्रकरणम् ॥
'गम्ल ' ' शक्ल' अनयोरनुकरणे अनड् । गमा । शका । गुणविषये
तु लपरत्वम् । गमलौ । गमल । गमलम् । गमलौ । गमृन् । गम्ला । गम्ले।
'ग्रेो यडि, क्षियो दीर्घत्' इत्यादौ धात्वनुकरणे विभक्तिनिर्देशाच्च, प्रकृतिवदनुकरणमिति पाक्षि कम्। ततश्चात्रातिदेशमात्रमादायधातुत्वात् ‘ऋत इद्धातो 'इतीत्वम्। अतिदेशाभावमादाय धातु त्वाभावात् प्रातिपदिकत्वात् सुबुत्पत्तिश्च न विरुद्यत इति भाव । कीरिति । कृधातुरि त्यर्थ । ऋकारस्य इत्वे रपरत्वे 'र्वोरुपधाया ' इति दीर्घ । सोर्हल्डयादिलोप, विसर्गश्च । किराविति । अपदान्तत्वात् ' र्वो ' इति न दीर्घ । तीरिति ॥ तृधातुरित्यर्थ गीर्वदिति ॥ गीर्शव्दवद्रूपाणीत्यर्थ । किरम्-किरौ-किर । किरा-कीर्भ्याम्-कीर्भि । किरे । किर । किरो । कीर्षु । भ्यामादौ “स्वादिष्वसर्वनामस्थाने' इति पदत्वात् दीर्घ । इत्त्वाभावेति ॥ प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् अनुकरणस्य धातुत्वाभावात् ‘ऋत इद्धातो ' इति इत्त्वाभावे सतीत्यर्थ । अनड्गुणौ नेति ॥ 'ऋत उत्' इत्युत्त्वमपि तपरकरणान्नेति द्रष्ट व्यम् । अत एव “ग्रो यडि' इत्यादिनिदेशास्सङ्गच्छन्ते । कृरिति । कृधातुरित्यर्थ । कौ । क, इत्यादौ यण् । इत्यादीति ॥ क्र । क्रेो । को । क्राम् । क्रि ।
इत्यृदन्ता
अथ लृदन्ता निरूप्यन्ते। गम्लृ शक्लृइति ॥ ‘गम्लृ गतौ' ‘शक्लृ शत्तौ।' अजन्तौ धातू। अनडिति ॥ 'ऋदुशनस्’ इत्यनेनेति शेष । ऋलृवर्णयोस्सावर्ण्यादिति भाव । गुणविष ये त्विति ॥ डौ सर्वनामस्थाने च 'ऋतो डेि' इति गुण अकार, लपर इत्यर्थ । “उरणूपर इत्यत्र रप्रत्याहारग्रहणादिति भाव । गमृनिति ॥ लृवर्णस्य दीर्घाभावात् ऋवर्ण एव ।