२८३ । नृ च । (६-४-६)
नृ' इत्येतस्य नामि वा दीर्घ. स्यात् । नृणाम्-नृणाम् ।
इत्यृदन्ता ।
॥ अथ ऋदन्तप्रकरणम् ॥
'कृ' 'तृ' अनयोरनुकरणे * प्रकृतिवदनुकरणम्-' (प ३७) इति
तयोरुणादिषु “तुन्तृचौ शमिक्षदादिभ्य ' इति प्रकरणे बहुळमन्यत्रापि इत्यत्र उदाहृतत्वात् ।
नेति ॥ नृशब्दो मनुष्यवाची । तस्मात् सु । 'ऋदुशनस्' इत्यनङ् । “अप्तृन्' इतिसूत्रे
अनन्तर्भावात् 'सर्वनामस्थाने च' इति नान्तत्वप्रयुक्तो दीर्घ । हत्डयादिलोप । नलोप । ना
इति रूपम्। नरौ । नरः, इति ॥ ‘ऋतो डि’ इति गुणो रपर। अप्तृन्नाद्यनन्तर्भावात् नान्तत्वा
भावाच्च न दीर्घ । हे नः इति ॥ 'ऋतेो डि इति गुणेो रपर । हल्डयादिलोपो विसर्गश्च ।
नरम्-नरौ । शसिपूर्वसवर्णदीर्घो ऋकार, नत्वम्, नृन । टादाववि यणि रेफ । त्रा ।
त्रे । डसिडसेो , ऋत उत्, रपर, सलोप, विसर्गश्च । नु । नु । त्रेो । आमि नुट् ।
नगमि' इति नित्य दीर्घे प्राप्ते । नृ च ॥ नृ इति लुप्तषष्ठाकम् । “नामि' इति सूत्रमनुवर्तते ।
ढलोपे' इत्यतो दीर्घ इत्यनुवर्तते । “छन्दम्युभयथा' इत्यत उभयथेत्यनुवर्तते । तदाह ।
नृ इत्येतस्येत्यादिना । नृणाम् । नृणाम्, इति ॥ ऋवर्णान्नस्य’ इति णत्वम्। डौं ‘ऋतो
डि' इति गुण रपरत्वम् । नरि । त्रेो । नृषु ॥
अथ ऋदन्ता निरूप्यन्त । कृ इत्यादिना ॥ कृ, तृ इत्यनयोरनुकरणे इत्वे रप रत्वे इत्यन्वय । ‘कृ विक्षेपे ।'तृ प्लवनतरणयो ' । कृ, तृ इत्याभ्या शब्दाभ्या अनुकरणे क्रिय माणे अनुकरणभूताम्या ताभ्या धातुपाठपठितौ कृ, तृ, इत्येतौ विवक्षितौ । अत एवानुकरणस्य अनुकार्यमर्थ । अनुकार्यञ्च अनुकरणात् भिन्नमिति ‘मतौ छ' इतिसूत्रभाष्ये स्थितम् । आनुपूर्वी व्यत्ययेऽपि वाचकसादृश्यात् अर्थोपस्थापकत्वामिति कैयटे, *प्राग्दीव्यतोऽणु’ इत्यत्र भाष्ये च स्पष्टमेतत् । ततश्च अनुकार्याभ्या कृ, तृ इत्याभ्या अनुकरणभूतयो कृ, तृ इत्यनयोरर्थवत्त्वेन प्रातिपदिकत्वात् सुबुत्पत्ति । ननु अनुकरणभूतयोरनयोरनुकार्यशब्दस्वरूपवाचकत्वात् क्रिया वाचकत्वाभावेन धातुत्वाभावात् 'ऋत इद्धातो ’ इति कथमित्वम् । न च 'प्रकृतिवदनुकरण म्’ इति वचनात् अनुकरणभूतयो धातुत्वमिति वाच्यम् । एव सति अधातुरिति धातुपर्युदासात् प्रातिपदिकत्वानुपपत्तेरित्यत आह। प्रकृतिवदनुकरणमिति वैकल्पिकातिदेशादिति ॥ यत्तदेतेभ्य परिमाणे वतुप्’ इत्यत्र त्यदाद्यत्वनिर्देशात् 'त्यदादीनि सर्वैर्नित्यम्’ इत्येकशेषाकरणात्