। अथ ऋद्दन्तप्रकरणम् ॥
धाता । हे धातः । धातारौ । धातार । * ऋवर्णान्नस्य णत्व वाच्यम्
(वा ४९६९) । धातृणामित्यादि । एव नप्तरादय । उद्भातारौ । पिता ।
व्युत्पत्तिपक्षे नप्त्रादिग्रहणस्य नियमार्थत्वान्न दीर्घ. । पितरौ । पितर. ।
पितरम् । पितरौ । शेषं धातृवत् । एवं जामातृभ्रात्रादय । ना । नरौ । नर ।
हे नः।
अथ ऋदन्ता निरूप्यन्ते । धातेति ॥ 'डु वाञ् धारणपोषणयो ' । तत्र तृन् तृज्वा स्याताम् । क्रोष्टुशब्दवदनड्दीर्घसुलेपनलोपा । हे धातरिति ॥ 'ऋदुशनस्' इत्य त्रासम्बुद्धावित्यनुवृत्तेर्नानड् । 'ऋतो डि’ इति गुण अकार, रपरत्व, हल्डयादिलोप, विसर्ग । अप्तृन्' इति दीर्घस्तु न । असम्बुद्धावित्यनुवृत्ते । धाताराविति । डिसर्वनामस्थानयो ‘ऋतोडि’ इति गुण अकार, रपरत्वम्, ‘अप्तृन्' इति दीर्घश्च । धातार । वातारम् । वातारौ । शसि पूर्वसवर्णदीर्घ ऋकार, नत्वम् । धातृन् । टा यण् । वात्रा । डे यण् । धात्रे । डडिसो ऋत उत्', रपरत्वम्, सलोप , विसर्ग । धातु । धातु । धात्रो । धात्रो । आमि हूस्वनद्याप ' इति नुट् । ‘नामि’ इति दीर्घ । नकारस्य रेफषकाराम्या परत्वाभावादप्राप्ते णत्वे । ऋवर्णान्नास्य णत्वं वाच्यम्। ऋवर्णात् परस्येत्यर्थ । इदन्तु वार्तिक णत्वविधायकसूत्राणा सर्वेषा शेषभूतम् । डौ 'ऋतो डि ' इति गुण अकार, रपरत्वम् । वातरि । धातृषु । नच धातृशब्दस्य हिरण्यगर्भसज्ञाशब्दत्वात् औणादिकशसिक्षदादितन्तृजन्तत्वादिह कथम् “अप्तृन् इति दीर्घ । औौणादिकतृन्तृजन्तेषु नप्तादिसप्तानामेव दीर्घ इति नियमादिति वाच्यम्। धाञ्धातो शसिक्षदादित्वकल्पनाया प्रमाणाभावेन धातशब्दस्य औणादिकत्वाभावादिति भाव । एव नप्त्रादयः, इति ॥ नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, प्रशास्तृ, शब्दा धातृशब्दवदित्यर्थ । उद्रातृशब्दस्य औणादिकतृन्तजन्तस्य नप्त्रादिष्वनन्तर्भावेऽपि समर्थसूत्रे उद्रातार इति भाष्यप्रयोगादेव दीर्घ इत्युक्त प्राक् । तदेतत् स्मारयति । उद्भाताराविति । पितेति । धातृवदनडादि । सर्वनामस्थाने तु 'ऋतो डि' इति गुण अकार, रपरत्वम् । “अप्तृन्’ इति दीर्घस्तु नेत्याह । व्युत्पत्तीति ॥ पातीति पिता । तृच्प्रत्यय, इट्, आकारलोपश्चेति व्युत्पतिबोध्द्या । अव्युत्पत्तिपक्षे तु अप्तृन्तृजादिष्वनन्तर्भावात् दीर्घशङ्कैव नास्तीति भाव । पितरौ-पितर । पितरम्-पितरौ-पितृन्, इत्यादि धातृवत् । एवं जामातृभ्रात्रादय- इति ॥ उणादिषु ‘नप्तृ, नेष्ट, त्वष्ट, होतृ, पोतृ, भ्रातृ, जामातृ, मातृ , पितृ, दुहितृ इतिसूत्रे पितृजामातृभ्रातृशब्दा व्युत्पादिता । तत्र पितृशब्दस्य व्युत्पत्तिरुक्ता। भ्राजेस्तृनि, तृचि, वा जलोप । भ्राता । जाया मातीति जामाता । तृन्प्रत्यय तृज्वा यालोपश्च । अनयोरप्यौणा दिकयोर्नप्त्रादिष्वनन्तर्भावात् न दीर्घ इत्यर्थ । आदिना मन्तृ, हन्तृ इत्यनयो ग्रहणम् ।