पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/180

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । १७३ २७५ । ऋतो ङिसर्वनामस्थानयोः । (७-३-११०) डौ सर्वनामस्थाने च परे ऋदन्ताङ्गस्य गुण स्यात, इति प्राप्त । २७६ । ऋदुशनस्पुरुदंसोऽनेहसां च ।। (७-१-९४) ऋदन्तानामुशनसादीनां चान इस्यादसम्बुद्धी सौ पर । २७७ । अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहो तृपोतृप्रशास्तृणाम् । (६-४-११) अबादीनामुपधाया दीर्घ. खादसम्बुद्धौ सर्वनामस्थाने परे । नात्रादि ग्रहण व्युत्पत्तिपक्षे नियमार्थम् । उणादिनिष्पन्नाना तृन्तृजन्तानां चेद्भवति तहिं नप्लादीनामेव । तेन पितृभ्रातृप्रभृतीनां न। उद्रातृशब्दस्य तु भवत्येव । ऋतो डि ॥ “ हृस्वस्य गुण ' इत्यतो गुण इत्यनुवर्तत । अङ्गस्थलयधिकृतम् ऋत इत्यनेन विशेष्यते । तदन्तविधिः । तदाह । डौ सर्वेल्यादिना ॥ ऋदुशनस्॥'सख्युरसम्बुद्ध' इत्यत असम्बुद्धाविति “अनड् सो' इत्यत अनडिति चानुवर्तत । अङ्गस्यल्याधिकृतम् ऋदादिभिर्विशेष्यते । तदाह। ऋदन्तानामित्यादिना ॥ उशनसादिष्वपि तदन्तविधिर्बोध्य । अनडि डकार इत्, नकारादकार उच्चारणाथै । “डिच्च' इत्यन्तादेश । केछन् स् इति स्थिते । अप्तृन् ॥ 'नोपधाया ' इत्यात उपधाया इत्यनुवर्तते । 'सर्वनामस्थाने चासम्बुद्ध' इति चकारवर्जमनुवर्तते । तदाह । अबादीनामिति ॥ अत्र अष्टाध्याय्या तावत् ‘तृन्’ इतिसूत्रण * ण्वुल्तृचौ ? इतिसूत्रेण च कर्तरि तृन्तृच्चैौ विहितौ । तथा उणादिषु ** शसिक्षदादिभ्यस्सञ्ज्ञायाञ्चानिष्टौ” ** बहुळमन्यत्रापि” इति सूत्राभ्या तृन्तृचौ विधाय * नप्तृ, नेष्ट्र, त्वष्टृ, होतृ, पोतृ, भ्रातु, जामातृ, पितृ, दुहितृ” इतिसूत्रण नष्त्रादयो निपातिता । ततश्च सज्ञाशब्दा तृन्तृजन्ता औणादिका इति स्थिति । तत्र तृजन्तत्वादेव सिद्धे नप्त्रादिग्रहण व्यर्थमिल्यत आह । नप्त्रादिग्रहणमिति ॥ नियमशरीरमाह । उणादीति ॥ तेनेति ॥ औणादिकेषु नेत्रादिसप्तानामेव तृन्तृजन्ताना दीर्घ इति नियमेन तदितरेषा पितृभ्रात्रादीना न दीर्घ इति भाव । नच प्रशास्तृशब्द औणादिकी न भवतीति भ्रमितव्यम् । तस्यापि सज्ञाशब्दस्य शसिक्षदादिगणप्रविष्टत्वेन औष्णादिकत्वात् । अत्र मूले व्युत्पतिपक्षे इत्युक्त्या अव्युत्पतिपक्षे नप्त्रादिसप्ताना तृन्तृजन्तत्वाभावादप्राप्तौ नप्त्रादिग्रहणमर्थवत् । तदितरपितृमात्रादिशब्दाना तु औणादेकानामव्युत्पन्नतया तृन्तृजन्तत्वाभावादेव न दार्घ इति सूचितम् । नन्चेव सति उद्भातृशब्दस्यापि सञ्ज्ञाशब्दस्य शसिक्षदादित्वेन औणादिकत्वात् तस्य च नप्त्रादिसप्तस्वनन्तर्भावात् कथा दीर्घ इत्यत आह । उद्रातृशब्दस्येति ॥ 'एबुलुतृचौ? इतिसूत्रस्थभाष्ये तु अप्तृ इत्येवास्तु, तृन्तृचोर्ग्रहणम्मास्त्वति प्रपाश्चितम् । तृन्निति भाष्ये तु तृन्विधौ * ऋत्विक्षु