शुष्कीयतेः क्विप् । शुष्की. । पक्वी। इयड् । शुष्कियौ । शुष्किय ।
डसिडसो शुष्किय., इत्यादि ।
इति ईदन्ता ।
॥ अथ उदन्तप्रकरणम् ॥
शम्भुर्हरिवत् । एवं विष्णुवायुभान्वादय. ॥
२७४ । तृज्वत्क्रोष्टुः । (७-१-९५)
क्रोष्टुस्तृजन्तेन तुल्यं वर्तते, असम्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्द प्रयोक्तव्य इत्यर्थः ।
क्विपि शुष्कीरिति रूपमित्यर्थ । अडयन्तत्वान्न सुलोप । शुषधातो त्क्त शुष्क । ‘शुष क’ इति कत्वम् । सखीसुतीत्यादिशब्दवत् शुष्कीशब्द । शुष्कियावित्यादि । सयोगपूर्वत्वान्न यण् । किन्तु इयडिति विशेष इति भाव । ङसिङसोः शुष्किय. इति ॥ न च कत्वस्यासिद्ध त्वात् ख्यत्यात् परत्वादुत्व शङ्कयम् । इयडादेशे सति कृतयणादेशत्वाभावात् इति भाव ॥
इति ईदन्तप्रकरणम् ।
अथ उदन्ता निरूप्यन्ते । शम्भुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ ऊकार । गुणस्तु ओकार । अव् इत्यादयोऽपि विशेषास्त्वान्तरतम्यात् सङ्गता इति भाव । “कुश आह्वाने, रोदने च' इति धातो “सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन्” इति तुन्प्रत्यये 'व्रश्च' इति शस्य षकारे ष्टुत्वेन टकारे च क्रोष्टुशब्द । कुशधातो कर्तरि तृचि तु क्रोष्टशब्द । द्वावपि सृगालवाचिनौ । तयोरविशेषेण सर्वत्र प्रयोगे प्राप्त विशेष दर्शयितुमाह । तृज्वत्क्रो ष्टुः ॥ प्रययग्रहणपरिभाषया तृच् इति तृजन्त गृह्यते । “तेन तुल्यम्' इति तृतीयान्ताद्वति । इतोऽत् सर्वनामस्थाने' इत्यतस्सर्वनामस्थाने इति “सख्युरसम्बुद्धौ' इत्यतोऽसम्बुद्धाविति चानुवर्तते । तदाह । क्रोष्टुस्तृजन्तेनेत्यादिना ॥ “कार्यरूपनिमित्तार्थशास्त्रतादात्म्य शब्दिता । व्यपदेशश्च सप्तैतानतिदेशान्प्रचक्षते ॥” इति। तत्र प्राधान्यादिह तृजन्तरूपमेव अति दिश्यते । तच्च न कर्तृ भर्तृ इत्यादितृजन्तरूपम् किन्तु क्रोष्ट इत्येव तृजन्तरूप अतिदिश्यते । । कुशधातोरुपस्थितत्वात्, अर्थत आन्तर्याच्च, इत्यभिप्रेत्य फलितमाह । क्रोष्टुशब्दस्य स्थाने इति ॥ निमित्तादीनामुदाहरणानि तु तत्र तत्र प्रदर्शयिष्याम । क्रोष्ट स् इति स्थिते