[संज्ञा प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । एतच्च सूत्रकारेण ज्ञापितम् । तथा हि
११ । अ अ । (८-४-६८)
विवृतमनूद्य संवृतोऽनेन विधीयते । अस्य चाष्टाद्धयायी सम्पूर्ण प्रत्यसिद्ध वाच्छास्त्रदृष्टया विवृतत्वमस्त्येव । तथा च सूत्रम् ।
१२ । पूर्वत्रासिद्धम् । (८-२-१)
भावात् सवर्णदीघों न स्यादित्यत आह । प्रयोग इति ॥ शास्त्रीयप्रक्रियाभि परिनिष्ठिताना राम कृष्ण इत्यादिशब्दाना प्रयोगे क्रियमाण एव हूस्वस्यावर्णस्य सवृतत्वमित्यर्थ । प्रक्रियेति । शास्त्री यकार्यप्रवृत्तिसमये तु ह्रस्वस्याप्यवर्णस्य विवृतत्वमेवेत्यर्थ शिक्षावचनसिद्ध स्वाभाविक हूस्वावर्णस्य सवृतत्व प्रच्याव्यशास्त्रमूलभूते वर्णसमाम्नाये तस्य विवृतत्वेनैवोपदिष्टतया कृत्स्रशास्त्रीयप्रक्रियासमये हूस्वस्याप्यवर्णस्य विवृतत्वेन दण्डाढकमित्यादौ सवर्णदीर्घदिकार्यन्निर्बाधमिति अइउणिति सूत्र भाष्ये स्पष्टम्। एवच्च हूस्वस्यावर्णस्य सवृतमिति शिक्षावचन परिशेषात् परिनिष्ठितदशायामेव पर्य वस्यतीति न तदानर्थक्यमिति भाव । अयश्च शिक्षावचनसकोचस्सूत्रकारस्यापि सम्मत इत्या ह । एतच्चेति । तदेवोपपादयितु प्रतिजानीते । तथाहीति । यथा एतत् ज्ञापित भवति तथा स्पष्टमुपपाद्यत इत्यर्थ । अ अ । व्याकरणशास्त्रस्येदमन्तिम सूत्र द्विपदम् । तत्र अ इति प्रथम पद विवृतपर लुप्तषष्टीकम्। द्वितीयन्तु सवृतपर लुप्तप्रथमाकम्। ततश्च शिक्षावचनसिद्ध स्वा भाविक सवृतत्व प्रच्याव्य वर्णसमाम्राये विवृतत्वेनोपदिष्टस्य अवर्णस्य सवृत अवर्णो भवतीत्यर्थे । तदाह । विवृतमनूद्येति । विधीयत इति । प्रतिप्रसूयत इत्यर्थ । ननु प्रक्रियादशाया मप्येतत्सूत्र कुतो न प्रवर्तत इत्यत आह । अस्यचेति । अस्य अ अ इति सूत्रस्य, स्वप्राक्तनीं कृत्स्रा अष्टाद्यायी प्रति सिद्धत्वात् अविद्यमानत्वात् प्रक्रियादशाया विवृतत्वमस्त्येवेत्यन्वय । ननु प्रक्रियादशाया हूस्वावर्णस्य कथ स्वाभाविकात्सवृतत्वात् प्रच्यव , कथ वा विवृतत्वम्, तस्य आकारादिधर्मत्वादित्यत आह । शास्त्रदृष्टयेति । असिद्धत्वमिह न वास्तवात्यन्तास त्वं विवक्षितम् । किं तर्हि अविद्यमानत्वारोपात्मकमेव । एतावता न स्वाभाविकस्य सवृतत्वस्या वर्णात्प्रच्यव । नापि विवृतत्वम् । तस्य वास्तव प्रक्रियार्थ विवृतत्वस्यारोपादिति भाव । ननु ‘अअ’ इति सूत्रस्य कृत्स्रामष्टाध्यायीं प्रत्यसिद्धत्वे किं प्रमाणमित्यत आह। तथा च सूत्रमिति । चोह्यर्थे । तथा तेन प्रकारेण बोधक सूत्रमस्तिहीत्यर्थ । तथाविध सूत्रमाह । पूर्वत्रासिद्धम् ॥ पाणिनिप्रणीता अष्टाद्यायी । तत्र अष्टमाच्द्याये द्वितीयपादस्येदमादिम सूत्रम् । इत प्राक्तन कृत्स्र सूत्रजाल सपादसप्ताद्यायीति व्यवह्रियते । उपरितनन्तु कृत्स्र सूत्रजाल त्रिपादीति व्यवह्नि यते इति स्थिति । तत्र यदीद सूत्र स्वतन्त्रविधिस्यात् तदा इत पूर्वस्मिन् शाखे प्रवर्तमाने उपरितन शास्रमसिद्ध स्यादित्यर्थो लभ्येत । ततश्च सपादसप्ताद्यायी प्रति त्रिपाद्यसिद्धेति पर्य वस्येत् । एव सति त्रिपाद्यामपि पूर्व शास्र प्रतेि पर शास्रमसिद्धमिति अर्थो न लभ्येत । तथा