५०३५) । विहितविशेषण च । तेन। सुध्यौ।सुध्यावौ । सुद्याव । सुद्या मित्यादि । * ओकारान्ताद्विहित सर्वनामस्थानम् ' इति व्याख्यानान्नेह । हे भानो । हे भानव । उ शम्भु स्मृतो यन्न स्म स्मृतौ । स्मृतावौ । स्मृताव । स्मृताम् । स्मृतावौ । स्मृता इत्यादि ।
इत्योदन्ता
म्शसो ' इत्यात्वमिति भाव । टादावचि अवादेश मत्वा आह । गवा । गवे, इति । गोरि
ति ॥ 'डसिडसोश्च' इति पूर्वरूपमिति भाव । इत्यादीति ॥ गवो । गवाम् । गवि
इत्यादिशव्दार्थ । द्योशब्द ओकारान्तस्त्रीलिङ्ग । “सुरलोको द्योदिवो द्वे स्त्रियाम्' इत्यमर ।
सु शोभना द्यौ यस्येति बहुव्रीहौ पुत्लिंङ्ग । सुद्योस् इत्यादिसर्वनामस्थाने 'गोतो णित्
इत्यप्राप्ते । ओतो णिदिति वाच्यम् । गोत इति गकारमपनीय 'ओतो णिन्’ इति
वाच्यमित्यर्थ । तत्र प्रमाणमनुपदमवोक्तम् । नन्विद वार्तिकम् । तत्र ओति इति तपरकर
णम् । ओकारात् सर्वनामस्थान णिदिति लभ्यते । विहितेति । ओकाराद्विहित सर्वनाम
स्थानमित्येवमोत इत्येतद्विहितविशेषणमाश्रयणीयमित्यर्थ । तेनेति ॥ गोत इति गकारमप
नीय ओत इतिवचनेनेत्यर्थ । सुद्यामित्यादीति । गोशब्दवद्रूपाणीति भाव । हे भानो
इति ॥ ओकारात् पर सर्वनामस्थान णिदिति व्याख्याने तु भानुशब्दात् सम्बुद्धौ “ह्रस्वस्य
गुण ' इति गुणे ओकारे सति सो ओकारात् परत्वात् णिद्वत्वे द्वै औकारे एड परत्वा
भावात् सुलोपाभावे रुत्वविसर्गयो हे भानौ इति स्यात् । अतो विहितविशेषणमित्यर्थ । ननु
एड्हूस्वात् सम्बुद्धे ' इत्यत्र एड्ग्रहणसामर्थ्यादेव हे भानो, इत्यत्र णित्व तत्प्रयुक्तवृद्धिश्च न
भवति । अन्यथा “एद्रस्वात्' इत्येव ब्रूयात् । अतो विहितविशेषणमित्यर्थस्यास्वारस्यादित्यत
आह । हे भानव. इति ॥ तत्र ‘जसि च' इति गुणे भानो अस् इति स्थिते ओत परत्वा
ण्णिद्वत्वे वृद्धौ आवादेशे भानाव इति स्यात् । अतो विहितविशेषणमिति भाव । वस्तुतस्तु
लक्षणप्रतिपदोक्तपरिभाषया हे भानो, हे भानव, इत्यत्र णिद्वत्वाभावोपपत्ते विहितविशेषणत्वा
श्रयण व्यर्थमेव । उः शम्भुरिति । उ इत्यस्य विवरण शम्भुरिति । उ स्मृतो येनेति
विग्रहे बहुव्रीहि । ‘निष्ठा' इति स्मृतशब्दस्य पूर्वनिपात । आद्गुण । स्मृतो इति रूपम् । ततस्सु
बुत्पत्तौ गोशब्दवद्रूपाणि । वस्तुतस्तु “गोतो णित्' इति सूत्रशेषतया 'द्योश्च वृद्धिर्वक्तव्या
इत्येव वार्तिक भाष्ये दृश्यते । ‘औतोऽम्शसो' इत्यत्र ओते णिदिति तु न दृश्यते । अतोऽन्य
दोकारान्त प्रातिपदिक नास्तीत्याहु ॥
इत्योदन्ता ।