सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३६
सिद्धान्तकौमुद्याम्

इति-भुवरिति ॥ ३६०६ । ओमभ्यादाने (८-२-८७) । ओशब्दस्य प्लुतः स्या दारम्भे । ‘ओ३म् अग्निमीळे पुरोहितम् ' । “अभ्यादान ? किम् । “ ओमित्येकाक्षर ब्रह्म ' ॥ ३६०७ । ये यज्ञकर्मणि (८-२-८८) । ये३यजामहे । “यज्ञ-' इति किम् । ये यजामहे ॥ ३६०८ । प्रणवष्टः (८२-८९)। यज्ञकर्मणि टेरोमित्यादेशः स्यात् । ‘अपां रेतासि जिन्वतो३म् टे.’ किम् । हलन्तेऽन्त्यस्य मा भूत् ॥ ३६०९ । याज्यान्तः (८-२-९०) । ये याज्यान्ता मन्त्रास्तषामन्यस्य ट' प्लुता यज्ञकर्मणि । “जिह्वामझे चकृषे हव्यबाह३म् ' । “ अन्त ? किम् । याज्यानामृचा वाक्यसमुदायरूपाणा प्रतिवाक्य टे स्यात् । सर्वान्त्यस्य चेष्यते ॥ ३६१० । बूहिप्रेष्यश्रौषडैौषडावहानामादे. (८२९१) । एषामादेः प्लुतो यज्ञकर्मणि । “अन्नयेऽनुबू३हि' अन्नये गोमयानि प्रे३ष्य' । “अतुश्रौ३षट् ' । 'सोमस्यान्न व्रीही वौ३षट् ' । ‘अझिमा३वह'॥ ३६११ । अझीत्प्रेषणे परस्य च (८-२-९२) । अझीध प्रेषण आदेः प्लुतस्तस्मात्परस्य च । ओ३श्रा३वय' । नह । “ अमीदझीन्विहर' । “बर्हिस्तृणीहि' ॥ ३६१२ । विभाषा पृष्टप्रति वचने हे (८-२-९३) । लुत. । अकार्षीः कटम् । अवक र्ष ही३ । अकार्ष हि । ‘पृष्ट' इति किम् । ‘कट करिष्यति हि' । ‘हेः किम् । करोमि ननु । ३६१३ । निगृह्यानुयोगे च (८ २८४) । अत्र यद्वाक्य तस्य टे. प्लुतो वा । ‘अद्यामावास्येल्यात्थ३' । अमावास्यत्यवादिन युक्तया स्वमतात्प्र च्याव्य एवमनुयुज्यते ॥ ३६१४ । आत्रेडित भत्र्सने (८ २९५) । ‘दस्योदस्यो३ घातयिष्यामि त्वाम्’ । आम्रडितग्रहण द्विरुक्तोपलक्षणम् । ‘चौर चौर३' ॥ ३६१५ । अङ्गयुक्त तिडाकाङ्कम् (८-२९६) । अङ्गेल्यनेन युक्त तिडन्त ठवते । 'अङ्गकूज३ इदानी ज्ञास्यति जाल्म ' । 'तिड् किम् । “ अङ्ग देवदत्त मिथ्या वदसि ' ।'आकाङ्कम्' किम् । “ अङ्ग पच '। नेतदपरमाकाङ्कत । भत्र्सन इलेयव । 'अङ्गाधीष्व भत्तं तव दास्यामि' ॥ ३६१६ । विचार्यमाणानाम् (८ २९७) । वाक्यानां टेः प्लुतः । “होतव्य दीक्षितस्य गृहा३इ' । “न होतव्य ३मिति' । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वसुतुतत्वपरीक्षण विचारः ॥ ३६१७ । पूर्वं तु भाषायाम् (८-२-९८) । विचार्यमाणाना पूर्वमेव उवते । 'अहिर्नु३ रज्जुर्नु' । प्रयोगापेक्षत्व पूर्वत्वम् । इह भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ॥ ३६१८ । प्रतिश्रवणे च । (८२९) । वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । ‘गां मे देहि भो ३' । “हन्त ते ददामि३ ' नित्यः शब्दो भवितुमर्हति ३' । “दत्त किमात्थ ' ॥ ३६१९ । अनुदात्त प्रश्रान्ताभिपूजितयो (८-२-१००) । अनुदात्त. प्लुतः स्यात् । दूरातादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत३इ । पट३उ । “ अन्निभूते' “पटो' एतयोः प्रश्रान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक३ ॥ ३६२० । चिदिति चोपमार्थे प्रयुज्यमाने (८-२-१०१) । वाक्यस्य टरनुदात्तः प्लुत . । “ अन्निचिद्राया३त्' । अग्निरिव भायात् । 'उपमार्थे' किम् । कथचिदाहुः । 'प्रयुज्यमाने' किम् । अन्निर्माणवको भायात् ॥ ३६२१ । उपरिस्विदासीदिति च (८ २ १०२) । टेः प्लुतोऽनुदात्तः स्यात् । “उपरि स्विदासी३त्' । अधः स्विदासी३त् इत्यत्र तु 'विचार्यमाणानाम्’ (सू ३६१६) इत्युदात्तः प्लुत ॥ ३६२२ । स्वरितमात्रेडिते ऽसूयासंमतिकोपकुत्सनेषु (८-२-१०३) । स्वरितः प्लुतः स्यादात्रेडिते परेऽसूयादौ गम्ये । अस्यायाम् । अभिरूपक ३ अभिरूपक रिक्त ते आभिरूप्यम् । संमतौ । अभिरूपक३