यजय' । 'शुन्धश्व देव्याय कर्मणे देवयज्यायै' । आङ्पूर्वात्पृच्छे: क्यम् । “ आपृच्छय धरुणं वाज्यपंति' । सीव्यतेत. क्यप् पन्व च प्रतिपीव्यः । ब्रह्मणि वदण्र्यन् । ब्रह्मवाद्यम् । लोके तु वद सुपि क्यप् च' (पू २८५.४) इति क्यव्यतौ । भवने स्तौतश्च ण्यत् । भाव्यः । स्नाव्य । उपपूर्वाचिनोनेण्यैदायादेशश्च पृट उत्तरपदे । उपचाय्यपृडम् । “हिरण्य इति वक्तव्यम्' (वा १९४०) उपचयपृडमेवान्यन् । “मृड सुखने' 'पृङ च' इत्यस्मादिगुपधलक्षण क' ॥ ३४०८ । छन्दसि वनसनराक्षिमथाम् (३-२-२७) । एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनि त्वा क्षत्रवनिम् उन नो गोपणि धियम्' । “ये पथां पथिरक्षयः । चतुरक्षौ पथि रक्षी । 'हविर्मथीनामभि' ।। ३४०९ । छन्दसि सहः (३ -२-६३) । ण्विः स्यात् । पृतनाषाट् । ३४१० । वहश्च ( ३-२-६४) । प्राग्वत् । दिल्यवाट् । योगविभाग उत्तरार्थः । ३४११ । कव्य पुरीषपुरीष्येषु ब्युट् (३-२-६५) । एषु वहञ्जर्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहन ॥ ३४१२ । हव्येऽनन्त पादम् (३-२-६६) । अग्निों हव्यवाहनः । पादमध्ये तु “वहश्च' इति ण्विरव । “हव्यवाळग्रिजरः पिता न ' ॥ ३४१३ । जनसनखनक्रमगमो विट् (३ -२-६७) । “विडुनो –’ (सू २९८२) इत्यात्वम् । अव्जा गोजा । 'गाषा इन्द्रा नृषा असि' । “सनोतेरन' (सू ३६४५) इति षत्वम् । 'इय शुष्मेभिर्विसखा इवारुजत्' । “आ दधिक्रा शवसा पञ्च कृष्टी ' । अग्रेगा ॥ ३४१८ । मन्त्रे श्वतवहोक्थशास्पुरोडाशो ण्विन् (३-२ ७१) । श्वतवहादीना डस्पदस्येति वक्तव्यम्’ (वा २०३५-३६) यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस्वक्तव्य इत्यर्थः । श्वतवाः । वनवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासा । उक्थशासः । पुरा दाइयत दायत पुराडा ॥ ३४१५ । अवे यज (३-२-७२) । अवया’ । अवयाजौ । अवयाजः । पुरोडाश्च (८-२-६७) । एते सम्बुद्धौ कृतदीर्घ निपात्यन्ते । चादुक्थशाः ॥ ३४१७ । विजुपे छन्दसि (३-२-७३) । उपे उपपदे यजेर्विच् । उपयट् ॥ ३४१८ । आतो मनिन्कनिव्वनि पश्च (३-२-७४) । सुप्युपसर्गे चोपपदे आदन्तभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्रय प्रत्यया स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् कीला लपा ॥ ३४१९ । बहुलं छन्दसि (३२-८८) । उपपदान्तरेऽपि हन्तेर्बहुल विप् स्यात् । मातृहा । पितृहा । “छन्दसि लिट्’ (सू ३०९३) भूतसामान्ये। 'अह द्यावापृथिवी आततान । लिट कानज्वा' (सू ३०९४) । ‘कसुश्च' (सू ३०९५) । छन्दसि लिटः कानच्कसू वा स्त. चक्राणा वृष्णिम्' । “यो नो अन्ने अररिवा अघायु ' । 'छन्दस्यघशब्दात्परच्छाय क्यज्वक्त व्य' (वा १७११) । 'क्याच्छन्दसि' (सू ३१५०) । उप्रत्ययः स्यात् । अघायुः । 'एरजधि कारे जवसवैौ छन्दसि वाच्यौ' (वा २२००) जवेयाभियूनः । 'ऊर्वोरस्तु मे जव .' । 'देवस्य सवितुः सवे' ॥ ३४२० । मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः (३-३-९६) । वृषादिभ्य क्तिन्स्यात् स चोदात्तः । “वृष्टिं दिव ’ । “सुन्नमिष्टये' । “पञ्चत्पत्तीरुत ' । “इयं ते नव्यसी मति.’ । वित्तिः । भूतिः । “ अग्न आ याहि वीतये ' । “रातैौ स्यामोभयासः’ ॥ ३४२१ । छन्दसि गत्यर्थेभ्यः (३-३-१२९) । ईषदादिधूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽन्नि. ॥ ३४२२ । अन्येभ्योऽपि दृश्यते (३-३-१३०) । गत्यर्थेभ्यो ४१
अवन्या