सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७२२
सिद्धान्तकौमुद्याम्

द्देशेन त्यक्का प्रक्षिपतीत्यर्थ. । ३३९५ । द्वितीया त्राह्मणे (२--६०) । ब्राह्मणविपये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । पठयपवादः । “गामस्य तदह. सभाया दीव्येयु' । ३३९६ । चतुथ्यैर्थे बहुल छन्दसि (२-३-६२) । पष्टी स्यात् । “पुरुषमृगश्चन्द्रमसे' । 'गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् ' । वनस्पतिभ्य इत्यर्थ । “षष्ठयर्थे चतुर्थीति वाच्यम् (वा १५०९) । “या खर्वेण पिबति तस्यै खर्व ' ॥ ३३९७ । यजेजश्च करणे (२-३-६३) । इह छन्दसि बहुल षष्ठी । घृतस्य घृतेन वा यजतेत ॥ ३३९८ । बहुल छन्दसि (२-४-३९) अदो घस्लादेशः स्यात् । घस्तां नूनम् । लुडि 'मन्त्रे घस-' (३४०२) इति च्लेलुक् । अडभावः । “सग्धिश्च मे' ॥ ३३९९ । हेमन्तशिशिरावहोरात्रे च छन्दसि (२-४-२८) । द्वन्द्वः पूर्ववलिङ्गः । हेमन्तश्च शिशिरश्च हेमन्तशिशिरौ । अहोरात्रे । “ अदिप्रभृतिभ्यः शप (सू २४२३) ॥ ३४०० । बहुल छन्दसि (२ -३-७३) । “वृत्र हनति वृत्रहा ' । 'अहिः शयत उपपृक् पृथिकाः’ । अत्र लुड् न । अदादिभिन्नेऽपि कचिल्लुक् । । “त्राध्व नो देवा' । 'जुहो ल्यादिभ्य. इलु.’ (सू २४८९) ॥ ३४०१ । बहुल छन्दसि (२-४-७६ ) । 'दाति प्रियाणि चिद्वसु' । अन्यत्रापि । 'पूणां विवष्टि ' ॥ ३४०२ । मन्त्रे घसह्वरणशवृदहादृच्कृगमिजनिभ्यो लेः (२-४-८० ) । लिरिति च्ले. प्राचा सज्ञा । एभ्यो लर्लक्स्यान्मन्त्रे । “ अक्षन्नमी मदन्तहि' । घस्लादेशस्य “गमहन-' (सू २३६३) इत्युपधालोपे 'शासिवसि-' (सू २४१०) इति ष. । माह्वार्मित्रस्य' । “धूर्ति. प्रणङमल्र्यस्य ' । 'नशेवी' (सू४३१) इति कुत्वम् । “सुरुचो वन आव.’ । “मा न आधक् ' । आदल्याकारान्तग्रहणम् । “आप्रा द्यावापृथिवी' । “परावग्भर्भार भृद्यथा' । “ अक्रन्नुषस.' । “त्वे रयिं जागृवासो अनुग्मन् ' । मन्त्रग्रहण ब्राह्मणस्याप्युप लक्षणम् । “अज्ञत तदा अस्य दन्ता' । विभाषानुवृत्तेर्नेह । “न ता अगृभ्णन्नजनिष्ट हि ष .' ॥

इति द्वितीयोऽध्यायः ।

३४०३ । अभ्युत्सादयाप्रजनयाचिकयांरमयामक. पावयाक्रियाद्विदामक्रन्निति च्छन्दसि (३-१-४२) । आद्येषु चतुषु लुडि 'आम्” “अक.' इत्यनुप्रयोगश्च । अभ्युत्सादयामक' । अभ्युदसषदादात लाक । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामक । अचैषीदित्यर्थे चिनोतेराम् द्विर्वचनं कुत्व च । रमयामकः । अररारमत् । पावयांक्रियात् । पाव्यादिति लोके । विदामक्रन् । अवदिषुः ॥ ३४०४ । गुपेश्छन्दसि (३-१-५०) । च्लेश्वड् वा । 'गृहानजूगु पत युवम् ’ । अगौप्तमित्यर्थः । ३४०५ । नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (३-१-५१) । चलेश्वड् न । “मा त्वायतो जरितुः काममूनयी.’ । “मा त्वान्निध्र्वनयीत्' । ३४०६ । कृमृष्ट रुहिभ्यश्छन्दसि (३-१-५९) । च्लेरड् वा । 'इद तेभ्योऽकर नम ' । अमरत् । अदरत् । यत्सानोः सानुमारुहृत्' । ३४०७ । छन्दसि निष्टक्र्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्य खन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि (३-१-१२३) । कृन्ततेः निस्पूर्वात्क्यपि प्राप्त ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्व च । “निष्टक्र्य चिन्वीत पशुकाम देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप्दीर्घश्च । “स्पर्धन्ते वा उ देवहूये ' । 'प्र' 'उत्’ आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्य एभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्यतौ । खन्यः । खान्यः ।