३३८७ । छन्दास पुनवस्वारकवचनम् (१-२-६१) । द्वयोरेकवचन वा स्यात् । पुनवसुनक्षत्र पुनवसू वा । लोके तु द्विवचनमेव ॥ ३३८८ । विशाखयोश्च (१-२-६२) । प्राग्वन् । विशाखा नक्षत्रम् । विशाखे वा ॥ ३३८९ । पष्टीयुक्तश्छन्दसि वा (१-४-९) । षष्ठयन्तेन युक्त' पतिशब्दश्छन्दसि घिसज्ञेो वा स्यात् । “ क्षवत्रस्य पतिना वयम्' । इह वेति योग विभज्य छन्दसीत्यनुवर्तते । तेन “सर्वे विधयश्छन्दसि वैकल्पिका' । “बहुल छन्दसि ' (सू ३४०१) इत्यादिरस्यैव प्रपञ्च. । 'यचि भम्’ (सू २३१) । 'नभोऽङ्गिरोमनुषा वत्युप सङ्खयानम्’ (वा १०५८) नभसा तुल्य नभस्वत् । भत्वाद्रुत्वाभाव । “अङ्गिरस्वदङ्गिर.’ । मनुष्वदझे' । 'जनेनरुसि' (उणा) इति विहित उसिप्रत्ययेो मनेनरपि । बाहुलकात् । *वृषण्व स्वश्वयो' (वा १०५९) । वृष वर्षक वसु यस्य स वृषण्वसु । वृषा अश्वो यस्य वृषणश्च । इहान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोप. प्राप्तो भत्वाद्वार्यते । अत एव “पदान्तस्य (सू १९८) इति णत्वनिषेधोऽपि न । “अछेोपोऽनः’ (सू २३४) इत्यलोपेो न, अनङ्गत्वात् । ३३९० । अयस्मयादीनि च्छन्दसि (१-४-२०) । एतानि च्छन्दसि साधूनि । भपदसज्ञाधि काराद्यथायोग सज्ञाद्वय बोध्यम् । तथा च वार्तिकम्–“उभयसज्ञान्यपीति वक्तव्यम्' (वा १०६०) इति “स सुष्टुभास ऋकता गणेन' । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्व विधानार्थायाः पदसज्ञाया भत्वसामथ्र्येन बाधात् । “नैन हिन्वन्त्यपि वाजिनेषु' । अत्र पदत्वा जश्त्वम् । भत्वात्कुत्वाभावः । “ते प्राग्धातोः' (सू २२३०) । ३३९१ । छन्दसि परेऽपि (१-४-८१) । ३३९२ । व्यवहिताश्च (१-४-८२) । 'हरिभ्यां याह्योक आ' । “ आ मन्त्रैरिन्द्र हरिभिर्याहि' । ३३९३ । इन्धिभवतिभ्यां च (१-२-६) । आभ्या परो लिट् कित् स्यात् । समीधे दस्युहन्तमम्' । 'पुत्र ३ध अथवण: ' । बभूव । इद प्रत्याख्यातम् । 'इन्धेश्छन्दो विषयत्वाद्रुवो बुको नित्यत्वात्ताभ्या लिटः किद्वचनानर्थक्यम्' (वा ५९४) इति ॥
३३९४ । तृतीया च होश्छन्दसि (२-३-३) । जुहोतेः कर्मणि तृतीया स्याद्वितीया च । “यवाग्वान्निहोत्रं जुहोति' । अग्निहोत्रशब्दोऽत्र हविषि वर्तते , “यस्याग्निहोत्रमधिश्रित ममेध्यमापद्येत' इत्यादिप्रयोगदर्शनात् । अन्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्य हविर्देवतो 91