६७७ । विदिभुजिभ्यां विश्वे । विश्ववेदाः । विश्वभोजाः ।
६७८ । वशेः कनसिः । संप्रसारणम् । उशनाः ।
||इत्युणादिषु चतुर्थः पादः||
॥ अथ उणादिषु पञ्चमः पादः ।
६७९ । अदि भुवो डुतच । अदुतम् ।
६८० । गुधेरूमः । गोधूमः ।
६८१ । मसेरूरन् । मसूरः । प्रथमे पादे असेरुरन्, “मसेश्व' इत्यत्र व्याख्यात ।
६८२ । स्थः किच । स्थूरो मनुष्यः ।
६८३ । पातेरतिः । पातिः स्वामी । संपातिः पक्षिराजः ।
६८४ । वातेर्नित् । “वातिरादित्यसोमयो.' ।
६८५ । अर्तेश्च । अरतिरुद्वेगः ।
६८६ । तृहेः क्रो हलोपश्च । तृणम् ।
६८७ । वृञ्-लुटितनिताडेिभ्य उलच तण्डश्च । त्रियन्ते लुट्यन्ते तन्यन्ते ताडयन्त इति वा तण्डुलाः ।
६८८ । दंसंष्टटन न आ च । “दासः सेवकशूद्रयोः' । इत्यमरः ॥
रघुः । विदिभुजिभ्याम् ॥ विश्व । शब्दस्वरूपपरत्वात्स्मिन्नादेशो न कृत । उदाहरण विश्वं वेत्ति विन्दति भुङ्गे इति विग्रहः । अत्रोज्ज्वलदत्तेन विश्वेदा अग्”ि । विश्वेभोजा इन्द्र ।
तत्पुरुषे कृति' इति सप्तम्या अलुगित्युक्तम् । तन्न, तथा सति स्मिन्नादेशस्य दुर्वारत्वापत्तेः ।
सुमृलीको भवतु विश्ववेदाः । पूषा भगः प्रभृथे विश्वभोजा' इत्यादिमन्त्रेषु सुपो लुक एव दर्शनात् वृत्त्यन्तरेषु तथैवोदाहरणाञ्च । वशे ॥ ‘वश कान्तौ ।’ “उशना भार्गवः कवि ’ [उणादिषु ॥ इत्युणादिषु चतुर्थः पादः ॥ अदुतमिति ॥ अत् इत्यव्ययमाकस्मिकार्थे । तस्मिन्नुपपदे भुवः डुतच्प्रत्ययः । गुध्यते परितो वेष्टयते प्राणिभिरिति गोधूम । “गोधूमो नागरङ्गे स्यादोषधीत्रीहिभेदयोः' इति मेदिनी। मसेः ॥ ’ स्थूरो मनुष्य इति ॥ 'स्थूरस्य रायो बृहतो ययीशे' इति
मसी परिणामे
मन्त्रे तु योगपुरस्कारात् स्थरस्य इत्यथः । रभसकाशस्थमाह । वातिरिति ॥ वृञ्लुटि ॥ यद्यपि “सानसिवर्णसि' इति सूत्रे तण्डुलशब्दो निपातितः । तथापि प्रत्ययखरेण मछद्योदात्त सः । अयं तु चित्स्वरेणान्तोदात्त इति विवेकः । दंसेः॥ ‘दासः शूद्रे दानपत्रे भृत्यधीवरयोरपि’