६६५ । नुवां धुट् च । नोधाः ऋषिः ।
६६६ । गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च । असिः स्यान् । सुतपाः । जातवेदाः । *गतिकारकोपपदात्कृन्' (सू ३८७३) इत्युत्तरपदप्रकृ तिस्वरत्वे सति शेषख्यानुदात्तत्वे प्राप्त तदपवादार्थमिदम् ।
६६७ । चन्द्रे मो डेित् । चन्द्रोपपदान्माङोऽसिः ख्यात्स च डित्, चन्द्रमा ।
६६८ । वयांसेस धावः । वयोधास्तरुणः ।
६६९ । पयसि च । पयोधाः समुद्रो मेघश्च ।
६७० । पुरसि च । पुरोधा ।
६७१ । पुरूरवाः । पुरुशव्द्य दीर्घ रौतेरसिश्च निपात्यते ।
६७२ । चक्षेर्बहुलं शिच । नृचक्षाः ।
६७३ । उषः कित् । उषः ।
६७४ । दमेरुनांसि । “सप्तार्चिर्दमुनाः ।
६७५ । अङ्गतेरसिरिरुडागमश्च । अङ्गिराः ।
६७६ । सर्तेरपूर्वादसिः । अप्सराः । प्रायेणायं धून्नि । अप्सरसः ।
बुधे च परमेष्ठिनि ' इति मेदिनी । नोधा इति ॥ “सद्योभुवद्वीर्याय नोधाः’ इति मन्त्रे नोधा ऋषिर्भवतीति निरुक्तम् । नव दधातीति तु नैरुक्त व्युत्पत्त्यन्तर बोध्यम् । अत्र स्वर सूत्रम् “गतिकारकयोः पूर्वपदप्रकृतिस्वरत्वञ्च' इति कृदुत्तरपदप्रकृतिस्वरापवादोऽयम् । चन्द्रे ॥ चन्द्र रजतम् अमृतञ्च, तदिव मीयते असौ चन्द्रमा’ इति हरदत्तः । पुरसि च ॥ “पुरोधातु पुरोहितः' इत्यमर । “पुरूरवाः बुधसुतो राजर्षिश्च पुरूरवाः’ इत्यपि । विद्यात्पुरूरव शब्द रुकारस्यापि दीर्घताम्' इति द्विरूपकोश । नृचक्षा इति ॥ शिचेत्युक्ते सार्वधातुकसज्ञा । अतः ख्याञ् न । उषः कित् । दशपाद्यान्तु वसः किदिति पाठः । “वसति सूर्येण सहेत्युषा । अपो भीति सूत्रे उषसश्चेष्यते' इति वार्तिकस्य समुषद्भिरित्युदाहरण विवृण्वद्रिर्हरदत्तादिभिरय पाठः पुरस्कृतः । दमेरुनासि ॥ 'सप्तार्चिर्दमुन शुक्रः' इत्यमरः । पक्षे “अन्येषामपि दृश्यत' इति दीर्घः । जुष्टो दमूनाः । दमूनसहपतिं वरेण्यम् । दशपाद्या तु सूत्रे दीर्घः पठ्यते । तन्मते पक्षे हस्वो बाहुलकाद्वेोध्यः । प्रायेणेति ॥ 'त्रियां बहुष्वप्स रसः' इत्यमर । “त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा अपि' इति शब्दार्णव । “अप्सर स्वप्सराः प्रोक्ताः सुमनाः सुमन:सु च' इति द्विरूपकोशः “एकाप्सरः:प्रार्थितयेोर्विवादः’ इति