पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६५४
[उणादिषु
सिद्धान्तकौमुदीसहिता

६५५ । अञ्च्यञ्जियुजिभृजिभ्यः कुश्च । एभ्योऽसुन्कवगैश्चान्तादेशः । अङ्कञ्विह्नशरारया ' । अङ्गः पक्षी । योग: समाधिः । भर्गस्तेज ।

६५६ । भूरविभ्यां केित् । भुवः । रजः ।

६५७ । वसेर्णित् । वासो वस्रम् ।

६५८ । चन्देरादेश्च छः । छन्दः ।

६५९ । पचिवचिभ्यां सुट् च । “पक्षसी तु स्मृतौ पक्षौ'। वक्षो हृदयम् ।

६६० । वहिाधाञ्भ्यश्छन्दसि । वक्षा अनड़ान् । हासाश्चन्द्रः । धासाः पर्वत इति प्राञ्चः । वस्तुतस्तु णिदित्यनुवर्तते न तु सुट् । तेन वहे रुपधावृद्धिः । इतरयोः “आतो युक्-' (सू २७६१) इति युक् । “शोणा धृष्णू नृवाहसा' । 'श्रोता हवं गृणत: स्तोमवाहा ' । 'विश्वो विहाया । वाजम्भरो विहाया देवो नयः पृथिवीं विश्वधाया अधारयत्पृथिवीं विश्वधायसम्’ । 'धर्णसं भूरिधायसम्’ इत्यादि ।

६६१ । इण आसिः । अयाः वह्निः । स्वरादिपाठाद्व्ययत्वम् ।

६६२ । मिथुनेऽसिः पूर्ववच सर्वम् । उपसर्गविशिष्टो धातुमिथुनं तत्रा सुनोऽपवादोऽसि: स्वरार्थः । यस्य धातोर्यत्कार्यम् असुन्प्रत्यये उत्तं तदत्रापि भवतीत्यर्थः । अशेर्देवने युट् चेत्यादि सुयशाः ।

६६३ । नजि हन एह च । अनेहाः । अनेहसौ ।

६६४ । विधाओो वेध च । विद्धातीति वेधाः ।


रहस्तत्वे रते गुह्ये' इति मेदिनी । अञ्च्य ञ्जियुजि ॥ अङ्क-अङ्कसी-अङ्कांसि । अङ्ग अङ्गसी-अङ्गांसि । योग:-योगसी-योगांसि । “उच समवाये ।’ अस्मादसुनि बाहुलकात् कुत्व, न्यङ्कादित्वाद्वा । “ ओक आश्रयमात्रेऽपि मन्दिरेऽपि नपुसकम्' इति मेदिनी । भूर ञ्जिभ्याम् ॥ भुव. अन्तरिक्षम् । षष्ठयन्तप्रतिरूपकमव्ययमिदम् । रजो रेणुः । 'रजः क्रीब गुणान्तरे । आर्तवे च परागे च रेणुमात्रेऽपि दृश्यते' इति मेदिनी । घञ्जअर्थ कप्रत्यये तु अकारान्तोऽप्ययम् । “रजोऽय रजसा सार्द्ध स्त्रीपुष्पगुणधूलिषु' इत्यजयकोशः । विरजा नदीम् । विरजा दीक्षामिति । चन्देरादेश्च छः ॥ छन्द इति ॥ “छन्दः पद्यप्रभेदेऽपि स्वैराचाराभिलाषयो' इति मेदिनी । अकारान्तोऽपि । “ अभिप्रायवशौ छन्दौ' इत्यमरद्विरूप कोशौ । पचिवचिभ्याम् ॥ पक्ष -पक्षसी-पक्षांसि । अनीकाधिकरणे 'पूर्वोत्तरे द्वे पक्षसी इति शबरस्वाम्यादय. । माधवस्तु “पक्ष परिग्रहे' इत्यस्मादसुन् । पक्षः । छदिः सवत्सरा धैश्चेत्याह । वहिहा ॥ अत्र पूर्वसूत्रात्सुटमनुवर्तयता उज्ज्वलदत्तादीनां मतेनोदाहरणमाह । वक्षा इत्यादि ॥ प्राञ्च इति ॥ सकलवृत्तिकृतः प्रसादकारादयश्चेत्यर्थः । एतचायुक्तम् । उक्तोदाहरणानीह तावलोके दृश्यन्ते । न च सम्भवन्ति । छन्दसीति सूत्रात् । वेदे तु विपरीतमेवास्तीत्याह । वस्तुतास्त्वात ॥ वेदभाष्यकाराश्चेह साक्षिण इत्यवधेयम् । मिथुनेऽसिः ॥ सुपयाः सुस्रोताः इत्याद्युदाहरणम् । विधाञ्जः ॥ “वेधाः पुंसि हृषीकेशे