इय भा: इत्याद ।॥ २१ “ स्थूणेोणें नपुसके चव' । एते त्रियां कीबे च स्तः । स्थूणा-स्थूणम् । ऊर्णा-ऊर्णम् । तत्र स्थूणा काष्ठमयी द्विकर्णिका । ऊर्णा तु मेषादिलोम ॥ २२. “गृहशशाभ्यां कृीबे' । नियमार्थमिदम् । गृहशशपूर्वे स्थूणेोणें यथासङ्खय नपुसके स्त । गृहस्थूणम् । शशोर्ण शशलोमनि' इत्यमर ॥ २३. 'प्रावृट्वपुट्रुट्तृट्वट्त्विषः । एते त्रिया स्युः । २४. ‘दर्विविदिवेदिखनिशान्त्यश्रिवेशिकृष्योषधिकट्यङ्गुलय ’ । एते त्रियां स्युः । पक्षे डीप् । दर्वी-दर्विरित्यादि ।। २५ ‘तिथिनाडिरुविवीचिनालिधूलिकेकिकेलिच्छविनीविरात्र्यादय । एते प्राग्वत् । इय तिथिरित्यादि । अमरस्त्वाह—‘तिथयो द्वयो ? इति । तथा च भारविः– तस्य भुवि बहुतिथास्तिथयः’ इति । स्त्रीत्वे हि बहुतिथ्य इति स्यात् । श्रीहर्षश्च–“निखिलां निशि पौर्णिमातिथीन्' इति ॥ २६ “शष्कुलिराजिकुट्यशनिवर्तिध्रुकुटित्रुटिवलिपङ्कय:’ । एते ऽपि स्त्रियां स्यु. । इय शष्कुलिः ॥ २७ . 'प्रतिपदापद्विपत्सपच्छरत्संसत्परिषदुष सवित्क्षुत्पुन्मु त्समिधः' । इय प्रतिपदित्यादि । उषा उच्छन्ती । उषाः प्रातरधिष्ठात्री देवता ॥ २८. आशी धूपूगद्वरः' । इयमाशीरित्यादि ॥ २९. 'अप्सुमनस्समासिकतावर्षाणा बहुत्व चव ' । अबादीना पञ्चाना स्त्रीत्व स्याद्वहुत्व च । आप इमा । “त्रियः सुमनसः पुष्पम्' । “सुमना मालती जाति देववाची तु पुस्येव । “सुपर्वाण. सुमनस.' । बहुत्व प्रायिकम् । 'एका च सिकता तैलदाने ऽसमर्था' इत्यर्थवत्सूत्रे भाष्यप्रयोगात् । “समांसमा विजायते' (सू १८१३) इत्यत्र 'समाया समायाम्' इति भाष्याच । 'विभाषा घ्राधेट्’(सू २३७६) इति सूत्रे ‘आघ्रासाता सुमनसौ' इति वृत्तिव्याख्याया हरदत्तोऽप्येवम् ॥ ३०. ‘स्रक्त्वग्ज्योग्वाग्यवागूनौस्फिच.' । इय स्रक्त्वक्ज्योक् वाक्यवागूः नौ स्फिक् ॥ ३१. ‘तृटिसीमासम्बध्या ' । ॥ ३२ चुष्टि इय तृटिः सीमासबध्या वेणिखार्यश्च' । स्पष्टम् ॥ ३३. *ताराधारराज्योत्स्नादयश्च ' । 'शलाका त्रिया निलयम्' । नित्यग्रहणमन्येषा कचिद्यभिचारं ज्ञापयति ॥ इति स्त्र्यधिकारः ॥ ३४ “पुमान्’ । अधिकारोऽयम् ।। ३५. “घञ्जबन्त : । पाकः । त्याग । करः । गर. । भावार्थ एवेदम् । नपुसकत्वविशिष्ट भावे क्तल्युड्भ्या स्त्रीत्वविशिष्ट तु क्तिन्नादिभिबाँधेन परिशेषात् । कर्मादौ तु घञ्जाद्यन्तमपि विशेष्यलिङ्गम् । तथा च भाष्यम्–“सम्बन्धमनुवर्ति ष्यते' इति ॥ ३६. “घाजन्तश्च' । विस्तरः । गोचरः । चयः । जयः इत्यादि ॥ ३७ भयलिङ्गभगपदानि नपुसके' । एतानि नपुंसके स्युः । भयम् । लिङ्गम् । भगम् । पदम् । ३८ 'नडन्तः' । नङ्प्रत्ययान्तः पुसि स्यात् । यज्ञ । यदन्नः ॥ ३९. 'याच्या स्त्रियाम् ' । पूर्वस्यापवादः ॥ ४०. “कन्यन्ता घु ' । किप्रत्ययान्तो घुः पुसि स्यात् । आधि । निधिः । उदधि । “क्यन्तः ’ किम् । दानम् । “घुः’ किम् । जज्ञिबजम् ॥ ४१ . “इषुधिः स्त्री च ' । इषुधिशब्दः स्त्रिया पुंसि चव । पूर्वस्यापवादः ।। ४२. “देवासुरात्मस्वर्गगिरिसमुद्रनखकेशदन्त स्तनभुजकण्ठखङ्गशरपङ्काभिधानानि ' । एतानि पुसि स्यु । देवाः सुराः । असुरा दैत्याः । आत्मा क्षेत्रज्ञः । स्वर्गे नाकः । गिरिः पर्वत । समुद्रोऽब्धि. । नखः कररुहः । केश शिरोरुह । दन्तो दशनः । स्तनः कुचः । भुजो दोः । कण्ठो गळ: । खङ्गः करवालः । शरो मार्गणः । पङ्कः कर्दम इत्यादि ॥ ४३. “त्रिविष्टपत्रिभुवने नपुसके ' । स्पष्टम् । तृतीय विष्टप त्रिविष्टपम् । स्वर्गाभिधानतया पुंस्त्वे प्राप्तऽयमारम्भ ॥ ४४. ‘द्यौः स्त्रियाम्' । द्योदिवो
पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२६
दिखावट