पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
॥ श्रीरस्तु ॥
॥ वैयाकरणसिद्धान्तकौमुदी ॥
अथ लिङ्गानुशासनप्रकरणम् ।

१. “लिङ्गम्' ॥ २. “स्त्री' । अधिकारसूत्रे एते ॥ ३ “ऋकारान्ता मातृदुहितृतः स्वसृयातृननान्दर.' । ऋकारान्ता एते पञ्चैव स्त्रीलिङ्गा ” । स्वस्रादिपञ्चकस्येव डीनिषेधेन कत्रत्यादेडींपेकारान्तत्वात् । तिसृचतस्रोस्तु स्त्रियामादेशतया विधानेऽपि प्रकृत्योत्रिचतुरो ऋउदन्तत्वाभावात् ॥ ४. * अन्यूप्रत्ययान्ता धातु :’ । अनिप्रत्ययान्त ऊप्रत्ययान्तश्च धातु त्रिया स्यात् । अवनि. । चमू । 'प्रत्यग्रहणम्’ किम् । देवयतेः किम् ऊठ् चू । विशेष्य लिङ्ग ॥ ५. ‘अशनिभरण्यरणय. पुंसि च' । इयमय वाशनि ॥ ६ “मिन्यन्तः' । मिप्रत्ययान्तो निप्रत्ययान्तश्च धातुः स्त्रिया स्यात् । भूमिः । ग्लानिः ॥ ७. “वह्निवृष्ण्यन्नयः पुसि' । पूर्वस्या पवाद ।। ८. 'श्रोणियोन्यूर्मयः पुसि च' । इयमय वा श्रेणिः ॥ ९. ‘क्तिन्नन्त.’ । स्पष्टम् । कृतिरित्यादि ॥ १०. *ईकारान्तश्च' । ईप्रत्ययान्तः स्त्री स्यात् । लक्ष्मीः । ईबन्तश्च स्त्रिया स्यात् देवी कुरुचरीत्यादि ॥ ११. “ऊडाबन्तश्च' । कुरू. । विद्या ॥ १२. 'टवन्तमेकाक्षरम्'। श्रीः । भूः । 'एकाक्षरम्' किम् । पृथुश्रीः ॥ १३. 'विशत्यादिरानवते.' । इय विशतिः । त्रिशत् । चत्वारिशत् । पञ्चाशत् । षष्टि. । सप्ततिः । अशीति । नवति ॥ १४. 'दुन्दुभि रक्षषु ' । इय दुन्दुभिः । “अक्षेषु' किम् । अय दुन्दुभिर्वाद्यविशेषेोऽसुरो वेल्यर्थ ॥ १५ नाभिरक्षत्रिये' । इय नाभिः ॥ १६.'उभावप्यन्यत्र पुसि' । दुन्दुभिर्नाभिश्चोक्तविषयादन्यत्र पुंसि स्त । नाभि. क्षत्रियः । कथ तर्हि 'समुल्लसत्पङ्कजपत्रकोमलैरुपाहितश्रीण्युपनीविनाभिभिः इति भारवि । उच्यते । दृढभक्तिरित्यादाविव कोमलैरिति सामान्ये नपुसक बोध्यम् । वस्तुतस्तु “लिङ्गमशिघ्यं लोकाश्रयत्वालिङ्गस्य' इति भाष्यात्पुंस्त्वमपीह साधु । अत एव नाभिर्मुख्यनृपे चक्रमध्यक्षत्रियोः पुमान् ' । “द्वयो. प्राणिप्रतीके स्यात्स्त्रिया कस्तूरिकामदे इति मेदिनी । रभसोऽप्याह-“मुख्यराट्क्षत्रिये नाभिः पुसि प्राण्यङ्गके द्वयोः । चकमध्ये प्रधाने च स्त्रिया कस्तूरिकामद’ इति । एवमेवविधेऽन्यत्रापि बोध्यम् ॥ १७. 'तलन्त.' । अय त्रिया स्यात् । शुकृस्य भावः शुलता । ब्राह्मणस्य कम ब्राह्मणता । प्रामस्य समूह ग्रामता । देव एव देवता ॥ १८. “भूमिविद्युत्सरिछतावनिताभिधानानि' । भूमिभूः । विद्यु त्सौदामिनी । सरिन्निन्नगा । लता वल्ली । वनिता योषित् १९. 'यादा नपुसकम्' । याद ३शब्दः सरिद्वाचकोऽपि क्रीब स्यात् ॥ २०. “भाःखुक्स्रग्दिगुष्णिगुपानहः’ । एत त्रया स्युः । ।