पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७६६
सिद्धान्तकौमुद्याम्

निर्देशेऽपि नानन्तर्यमाश्रीयते' इति ॥ ३९७५। सगतिरपि तिङ् (८-१-६८)। पूजनेभ्यः काष्ठादि भ्यस्तिडन्त पूजितमनुदात्तम् । यत्काष्ठ प्रपचति । ‘तिड्डतिड' (सू ३९३५) इति निघातस्य निपातैर्यत्’ (सू ३९३७) इति निषेधे प्राप्त विधिरयम् । सगतिग्रहणाच गतिरपि निहन्यते । गतिग्रहणे उपसर्गग्रहणमिष्यते'(वा ४७३२) । नेह । यत्काष्ठ शुष्कीकरोति ॥ ३९७६ । कुत्सन च सुग्यगोत्रादौ (८-१-६९) । कुत्सने च सुबन्ते परे सगतिरगतिरपि तिडनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । “कुत्सने' किम् । प्रपचति शोभनम् । “सुपि' किम् । पचति श्रिाति । “ अगोत्रादौ' किम् । पचति गोत्रम् । “क्रियाकुत्सन इति वाच्यम्’ (वा ४७३९) । कर्तुः कुत्सनेन मा भूत् । पचति पूतिर्देवदत्तः । “पूतिश्चानुबन्ध इति वाच्यम्' (वा ४७४१) । तेनाय चकारानुबन्धत्वादन्तोदात्त । “वा बह्वर्थमनुदात्तमिति वाच्यम्’ (वा ४७४२) । पचान्तिपूति ॥ ३९७७ । गतिर्गतौ (८-१-७०) । अनुदात्त । अभ्युद्धरति । 'गतिः’ किम् । दत्त पचति । 'गतौ' किम् । “आमन्द्ररिन्द्र हरिभिर्याहि मयूरंरोमभि' ॥ ३९७८ । तिडि चोदात्तवति (८-१-७१) । गतिरनुदात्तः । यत्प्रपचति । तिङ्गहणमुदात्तवतः पारमाणाथम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्त प्रलेयव गतिस्तत्र धातावेवोदात्तवति स्यात्प्रत्यय न स्यात् । उदात्तवति ? किम् । प्रपञ्चति ।

इति तिङन्तस्वराः ।

अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते –“अन्निमीळे' इति प्रथमर्के । तत्रा मिशब्दोऽव्युत्पत्तिपक्षे ‘फिष-' (फिट् १) इत्यन्तोदात्त इति माधवः । वसुतुतस्तु घृतादित्वात् । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम् अमि पूर्व.' (सू १९४) इत्येकादेशस्तु एकादेश उदात्तन-' (सू ३६५८) इत्युदात्त । ईळे । ‘तिड्डतिड:’ (सू ३९३५) इति निघातः । सहिताया तु * उदात्तादनुदात्तस्य-' (सू ३६६०) इतीकारः स्वरितः । “स्वरिता त्सहितायाम्--' (सू ३६६८) इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुति । पुरःशब्दाऽन्ता दात्त. ‘पूर्वाधरावराणाम्-' (१९७५) इत्यसिप्रत्ययस्वरात् । हितशब्दोऽपि धाओो निष्ठायाम् दधातेर्हि.' (सू ३०७६) इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्त । “पुरोऽव्ययम्' (सू ७६८) इति गतिसज्ञाया “कुगति-' (सू ७६१) इति समास समासान्तोदात्ते “तत्पुरुषे तुल्यार्थ (सू ३७३६) इत्यव्ययपूर्वपदप्रकृतिस्वर 'गतिकारकोपपदात्कृत्' (सू ३८७३) इति कृदुत्तरपद प्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्त ‘गतिरनन्तर' (सू ३७८३) इति पूर्वपदप्रकृ तिस्वरः । पुर-शब्दोकारस्य संहिताया प्रचये प्राप्त “उदात्तस्वरितपरस्य सन्नतरः’ (सू ३६६९) इत्यनुदात्ततरः । यज्ञस्य । नड: प्रत्ययस्वरः । विभक्तः सुरत्वादनुदात्तत्वे स्वरितत्वम् । देवम् । पचाद्यच् । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृति स्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो ‘नविषयस्य’ (फिट् २६) इत्याद्युदात्त । रन्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तो दात्त । तमपःांपत्वादनुदात्तत्व स्वरितप्रचयाविल्यादि यथाशास्रमुन्नेयम् ॥ इति स्वरप्रकरणम् ।

             इत्थं वैदिकशब्दानां दिङमात्रमिह दर्शितम् ।
             तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥