पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४३
स्वरप्रकरणम् ।

मतोः पूर्वमात्संज्ञाया त्रियाम् (६-१-२१९) मनोः पूर्वमाकार उदात्तः स्रीनान्नि । उदुम्बरावती । शरावती ॥ ३७०६ । अन्तोऽवत्याः (-१-२००) । अवतीशब्दस्यान्त उदात्तः । वेत्रवती । डीपः पित्वादनुदात्तत्व प्राप्तम् ॥ ३७०७ । ईवत्याः (६१-२२१) । ईवल्यन्तस्यापि प्राग्वन् । अहीवती । मुनीवती ॥

अथ फेिट्स्सूत्राणि।

१. 'फिषोऽन्त उदात्तः । प्रातिपदिक फिट् । तस्यान्त उदात्तः स्यात् । उचैः ॥ २ “पाटलापालङ्काम्बासागरार्थानाम्' । एतदथानामन्त उदात्त । “पाटला' * फलेरुहा सुरूपा ' ‘पाकला’ इति पर्यायाः । ‘लघावन्ते-' इति प्राप्त । ‘अपालङ्क’ ‘व्याधिघात ' आरेवत’ ‘आरग्वध, इति पर्यायाः । अम्बार्थः । माता । “उनर्वन्नन्तानाम्' इत्याद्युदात्तत्वे प्राप्त । सागर. । समुद्र ॥ ३. 'गेहार्थानामस्त्रियाम्' । गेहम् । ‘नविषयस्य-' इति प्राप्ते । अत्रियाम्' किम् । शाला । आद्युदात्तोऽयम् । इहैव पर्युदासाज्ज्ञापकात् ॥ ४. ‘गुदस्य च' । अन्त उदात्तः स्यान्न तु त्रियाम् । गुदम् । “अत्रियाम्' किम् “ आन्त्रेभ्यस्त गुदभ्य.' । “स्वाङ्गाशटामदन्तानाम्' इत्यन्तरङ्गमाद्युदात्तत्वम् । ततष्टाप् ॥ ५. “ध्य- पूर्वस्य स्त्रीविषयस्य' । धकारयकारपूर्वो योऽन्योऽच्स उदात्त । अन्तध । ‘स्रीविष यवर्ण-' इति प्राप्त । छाया । माया । जाया । “यान्तस्यान्त्यात्पूर्वम्’ इत्याद्युदात्तत्वे प्रासे । “स्त्री' इति किम् । बाह्यम् । यञ्जन्तन्वादाद्युदात्तत्वम् । 'विषयग्रहणम्’ किम् । इभ्या । क्षत्रिया । ‘यतोऽनाव:’ (सू ३७०१) इत्याद्युदात्त इभ्यशब्दः । क्षत्रियशब्दस्तु 'यान्तस्या न्यात्पूर्वम्' इति मध्योदात्त खान्तस्याश्मादेः' । नखम् । उखा । सुखम् । दुःखम् । नखस्य “स्वाङ्गशिटाम्--' इत्याद्युदात्तत्वे प्राप्त । उखा नाम भाण्डविशेषः । तस्य कृत्रिमत्वात् खय्युवर्ण कृत्रिमाख्या चेत्’ इत्युवर्णस्योदात्तत्वे प्राप्त । सुखदुःखय “नविषयख्य-' इति प्रासे । “अश्मादेः किम् । शिखा । मुखम् । मुखस्य “स्वाङ्गशिटाम्--' इति “नविषयस्य इति वा आद्युदात्तत्वम् । शिखायास्तु “शीडः खेो निद्रस्वश्च' इत्युणादिषु नित्वोत्तेरन्तरङ्गत्वा द्वापः प्रागेव “स्वाङ्गशिटाम्--' इति वा बोध्यम् ॥ ७. “बहिष्टवत्सरतिशत्थान्तानाम् ' । एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बहिष्ठ । नित्वादाद्युदात्तत्वे प्राप्त । “बहिष्ठरश्चै सुवृता रथन' । 'यद्वहिष्ठ नातिविध' इत्यादौ व्यत्ययादाद्युदात्तः । सवत्सरः । अव्ययपूर्वपद प्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । सप्ततिः । अशीति । “लधावन्ते-' इति प्राप्त । चत्वारिंशत् । इहापि प्राग्वत् । “अभ्यूरवाना प्रभृथस्यायोः' । अव्ययपूर्वपदप्रकृतिस्वरोऽत्र बाध्यत इत्याहुः । थाथादिसूत्रेण गतार्थमेतत् ॥ ८. “दक्षिणस्य साधौ' । अन्त उदात्तः स्यात् । साधुवाचित्वा भाव तु व्यवस्थाया सर्वनामतया “स्वाङ्गशिटाम्--' इत्याद्युदात्तः । अर्थान्तरे तु 'लघावन्ते इति गुरुदात्तः । * दक्षिण सरलोदारपरच्छन्दानुवर्तिषु' इति कोशः ॥ ९. “स्वाङ्गाख्यायामा दिर्वा' । इह दक्षिणस्याद्यन्तौ पर्यायेणेोदात्तौ स्तः । दक्षिणेो बाहुः । “ आख्याग्रहणम्’ किम् । प्रत्यङ्मुखस्यासीनस्य वामपाणिर्दक्षिणो भवति ॥ १०. 'छन्दसि च' । अस्वाङ्गार्थमिदम् ।