पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२८
[कृदन्त।
सिध्दान्तकौमुदीसहिता


नृ, नरम्मन्यः ! भुवम्मन्यः ! • श्रियमात्मानं मन्यते श्रिमन्यं कुलम्' । भाष्य कारवचनाच्छीशब्दस्य ह्रस्वो मुमोरभावश्च ।

२९९५ । भूते । (३-२-८४)

अधिकारोऽयम् । “ वर्तमाने लट्' (सू २१५१) इति यावत् ।


इत्योकारस्य आकार इति भावः । अम्प्रत्ययवादित्यस्य प्रयेजनान्तरमाह । वांशस्सोरिति ॥ त्रियम्मन्य इति । त्रयमात्मानम्मन्यने इत्यर्थे मनेः ग्वशि इयन् । सुपेो लुक् । स्त्रीशब्दात् वाम्शसो ' इति इयड्वकल्प । अत्र यकारादकारश्रवणार्थम् अम्विधिः । मुमि तु अकारो न श्रुयेत । स्त्रीम्मन्य इति । इयटभावपक्षे “ अमि पूर्वः' । अम्प्रत्ययवदित्यस्य प्रयोजनान्तर माह । नृ नरम्मन्य इति । नृ इत्यविभाक्तिकम् उदाहरणे नृशब्दस्य समावेशसूचनार्थम् । नरमात्मानम्मन्यते इत्यर्थे मनेः खश, श्यन्, सुपेो लुक, नृशब्दादम् अम्प्रत्ययवादित्यतिदेशातू ऋतोऽडि’ इति गुणः । अत्रापि रेफादकारश्रवणार्थ अम्विाधिः । मुमि त्वकारो न श्रूयत। अम्प्रत्यय वदित्यस्य प्रयोजनान्तरमाह । भुवमन्य इति । भुवमात्मानम्मन्यते इत्यर्थे मनेः खश्, ३यन्, सुपा लुक् । भूशब्दादम् , अम्प्रत्ययवदित्यतिदशात् ‘अचि इनुधातु’ इत्युवड् । अतिदेशा भावे तु उव न स्यात्, तस्याजादिप्रत्यये विधानात् । श्रिमन्यमिति ॥ मनेः खश् इयन् । अत्र मननाक्रयाम्प्रति कुलत्वन रूपेण कुलङ्कर्तृ, तस्यैव कुलस्य अध्यारोपितश्रीत्वेन रूपेण कर्म त्वचेति स्थितिः । एवञ्च श्रीशब्दस्य नित्यत्रीलिङ्गस्यापि कुल लक्षणया वृत्तेर्नपुसकत्वम् । “यत्र हि प्रातिपदिकस्यैव लक्षणा प्रसिद्धा तत्र पूर्वलित्यागः । यथा प्रकृते श्रीशब्द. । यत्र तु पदस्य लक्षणा, न तत्र पूर्वलिङ्गल्याग । यथा गङ्गायाङ्गोष इत्यादं ?” इति 'पुयोगादाख्यायाम्' इति सूत्रे प्रकृतसूत्रे च भाष्यकैयटयोर्मर्यादा स्थिता । एवञ्च काळिम्मन्यं कुलमित्यत्र काळीशब्दस्य न स्त्रीलिङ्गपरित्यागः, प्रयोगानुसारेण तत्र पदलक्षणाया एवाभ्युपगमात् । श्रिमन्य कुल मित्यत्र तु प्रयोगानुसारान् श्रीशब्दस्य प्रातिपदिकस्यैव लक्षणेति पूर्वलिङ्गपरित्यागात् नपुंसकलिङ्गत्वमेवाश्रीयते । ततश्च श्रीशब्दस्यात्र नपुसकत्वात् “खिल्यनव्ययस्य’ इति बहिरङ्ग बाधित्वा “हस्वो नपुमके प्रातिपदिकस्य' इति हस्व एव न्याय्यः । मुमपवादे “इच एकाचः इति अमि कृत तस्य “स्वमोर्नपुमकात्' इति लुक् । तथाच श्रिमन्यङ्गुलामिति सिद्धम् । नच गाम्मन्य इत्यादावपि “सुपेो धातुप्रातिपदिकयोः' इति लुक् स्यादिति वाच्यम् । 'इच एकाचः इत्यम. 'सुपो धातु' इति लुगपवादत्वात् । 'स्वमेर्नपुसकात्' इति लुकस्तु नायमम्विधि बांधकः । मध्येऽपवादन्यायात् इति प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । तदाह । भाष्यकार वचनाच्छीशब्दस्य हस्व इति ॥ 'हस्वो नपुंसके' इत्यनेनेति शेषः । मुममोरभाव श्रेति ॥ मुमपवादस्य अमः ‘स्वमोर्नपुसकात्’ इति लुकि सति तयोः प्रयोगाभावः फलतीत्यर्थ. । भूते ॥ अधिकारोऽयमिति ॥ धातोरित्यधिकृतम् । ततश्च भूतार्थवृत्तेर्धातोरित्युत्तरत्रानु वर्तते इति फलति । वर्तमाने इति ॥ 'वर्तमाने लट्’ इत्यतः प्रागित्यर्थः । अत्र