पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५२७
बालमनोरमा ।


२९९१ । बहुलमाभीक्ष्ण्ये । (३-२-८१))

पौनःपुन्ये द्योत्ये । क्षीरपायिणः उशीनराः । सुप्युपपदे िणनिः

२९९२ । मनः । (३-२-८२))

सुपि मन्यतेणिनिः स्यान् । दर्शनीयमानी ।

२९९३ । आत्ममाने खश्च । (३-२-८३))

स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यान् । चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितम्मन्यः-पण्डितमानी । “खिल्यनव्ययस्य' (सू २७४३) । कालिंमन्या । * अनव्ययस्य' किम् । दिवामन्या ।

२९९४ । इच एकाचेोऽम्प्रत्ययवञ्च । (६-३-६८)

इजन्तादेकाचोऽम्स्यात्स च स्वाद्यम्वत्खिदन्ते परे । “ औौतोऽम्शसो: (सू २८५) गाम्मन्य । * वाम्शसो:' (सू ३०२) । त्रियम्मन्यः । स्त्रीम्मन्यः ।


व्रते गम्य इति यावत् । स्थण्डिलेशायीति ॥ 'तत्पुरुप छात बहुळम्' इत्यलुक् । बहुव्ठ माभीक्ष्ण्ये ॥ जातावप्युपपदे प्राप्त्यर्थमिदम् । तन् ध्वनयन्नुदाहरति । क्षीरपायिण इति ॥ मनः ॥ दैवादिकस्यैव मनप्रहण न तु तानादिकस्य, वहुळग्रहणानुवृत्तः । तदाह । सुपि मन्यतेरिति ॥ मनुतेहण तु बाधकमुन्नरसूत्रे वक्ष्यते । आत्ममाने खश्च । आत्मनः स्वस्य मान: मननम् आत्ममानः । तदाह । स्वकर्म के मनने इति । पण्डितम्मन्य इति ॥ खशः शित्वेन सार्वधातुकत्वात् श्यन् । खित्वात् “ अरुद्विषन्” इति मुम् । तानादिकस्य मनेहणे तु उविकरणः स्यात् । कालीमात्मानम्मन्यते इत्यर्थे खशि इयनि कृते आह । खिल्यन व्ययस्येति ॥ 'स्त्रिया पुवत्' इति पुवत्व बाधिन्वा परत्वाद्रस्व इत्यर्थ ! दिवामन्येति ॥ अधिकरणशक्तिप्रधानस्यापि दिवाशब्दस्य वृत्तिविषये कर्मत्व बोध्यम् । इच एकाचः ॥ एकाचवः आमिति छेदः । अम् च अम् चेत्येकशेषः । एक विधेयसमर्पकम् । इच एकाची ऽमिति प्रथम वाक्यम् । इच इत्येकाच इति च पञ्चमी । “अलुगुत्तरपदे’ इत्युत्तरपदाधिकारात् आक्षिप्तम्पूर्वपदम् इचा विशेष्यते । तदन्तविधिः । तदाह । इजन्तादेकाचोऽम् स्यादिति ॥ मुमोऽपवाद । िद्वतीयम् अम्पदम्प्रत्ययवादित्येकदेशेन प्रत्ययेन समानाधिकरण सम्बध्यते । असा मथ्येऽपि वतिप्रत्यय आपे स्वादिप्रत्ययेषु यत् द्वितीयेकवचन तदेवात्र आमिति विवक्ष्यते, व्याख्यानातू म्वदिति ॥ एतत्सर्व भाष्ये स्पष्टम् । खिदन्ते परे इति ॥ खिदन्ते उत्तरपदे परत इत्यर्थः । खिल्यनव्ययस्य’ इत्यतः खितीत्यनुवर्तते इति भावः । अम्प्रत्ययवदित्यतिदेशस्य प्रयोजनमाह । औौतशासरिति । गाम्मन्य इति । गामात्मान मन्यते इत्यर्थे मने खशि इयन्, सुपो लुक्, गोशब्दादम्, अम्प्रत्ययवदित्यतिदेशातू मकारस्य 'न विभक्तौ' इति नेत्वम् । ‘औौतोम्शसो