सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५२९
बालमनोरमा ।

२९९६ । करणे यजः । (३-२-८५)

करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनष्टवान् सोमयाजी । नित्यथ

२९९७ । कर्मणि हनः । (३-२-८६)

पितृठयघाती । कर्मणीत्येतन् “सहे च' (सू ३००६) इति यावदधि

२९९८ । ब्रह्मधूणवृत्रेषु किप् । (३-२-८७)

एषु कर्मसूपपदेषु हन्तेर्भूते किप् स्यान् । ब्रह्महा । धूणहा । वृत्रहा । किप् च' (सू २९८३) इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव, हन्तेरेव, भूत एव, किबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव किब वेति द्विविधो नियम इति भाष्यम् ।

२९९९ । सुकर्मपापमन्त्रपुण्येषु कृञ्जः । (३-२-८९)

सुकर्मादिषु च कृञ्जः किप्स्यान् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृन् । पापकृन् । मन्त्रकृत् । पुण्यकृत् । किबेवेति नियमात्कर्म


व्याख्यानमव शरणम् । करणे यजः ॥ सोमेनेति ॥ सोमाख्यलताविशेषरसेन याग कृतवानित्यर्थः । सोमलतारसद्रव्यकेन यागेन अपूर्वमुत्पादितवानिति मीमांसकाः। एतच िद्वती यस्य द्वितीये द्रव्यसंयोगाचोदना पशुसोमयोः–इत्यधिकरणे अध्वरमीमांसाकुतूहलवृत्तौ प्रपश्चित मस्माभिः । अग्रिष्टोमयाजीति ॥ अग्निष्टोमाख्ययागेन अपूर्वम्भावितवानित्यर्थः । कर्मणि हनः ॥ कर्मण्युपपदे भूतार्थीत् हनेर्णिनिः स्यात् । पितृव्यघातीति ॥ पितृव्य हतवा हनस्त:’ इति तः, “हो हन्तेः’ इति हस्य घ सूत्रात्कर्मग्रहणानुवृत्तेराह । कर्मस्विति ॥ हन्तेर्भूते इति ॥ भूतार्थवृत्तेर्हन्तरित्यर्थः । चतुर्विध इति ॥ पुनर्विधानलब्धस्य एवकारस्य विनिगमनाविरहाचतुर्वपि निवेश इति भावः । तत्र ब्रह्मादिष्वेव हन्तेरिति नियमात्पुरुष हतवानित्यत्र न किप् । ब्रह्मादिषु हन्तेरेवेति नियमात् ब्रह्म अधीतवानित्यत्र न किप् । ब्रह्मादिषु हन्तभूनकाले एवति नियमात् ब्रह्म हन्ति हनिष्यति वेत्यत्र न किप् । ब्रह्म हतवानित्यत्र अण् न भवति, किन्तु 'ब्रह्मधूण' इति किबेव । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैव नियमेन व्यावृत्ते । द्विविध इति ॥ उभयतो नियमोऽयम् । ब्रह्मादिष्वेवेति किबेवेति च भाष्यमित्यर्थ । एवञ्च हन्तरेव भूत एवेति नियमद्वयमुपक्ष्यमिति भाव । सुकर्म ॥ सु, कर्म, पाप, मन्त्र, पुण्य, एषां पञ्चानां द्वन्द्वः । त्रिविध इति ॥ सुकर्मादिषु भूते कृङः किबेवेति, सुकर्मादिषु भूते कृञ्ज एव किबिति, 87