पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३०
[कृदन्त
सिध्दान्तकौमुदीसहिता


कृतवानित्यवाणु न । कृत्र्य एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न किप् । भूत एवेति नियमान्मन्त्रं करोनि करिष्यति वेति विवक्षायां न किप् । स्वादिष्वेवति नियमाभावादन्यस्मिन्नप्युपपदे किप् । शास्रकृन् । भाष्यकृन्

३००० । सोमे सुञ्जः । (३-२-९०)

सामसुन् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ।

३००१ । अझैौ चेः । (३-२-९१)

३००२ । कमेण्यग्न्याख्यायाम् । (३-२-९२)

कमण्युपपद कमण्यव कारक चिनातः कप स्यान् अग्न्याधारस्थलावशष स्याग्व्यायाम् । श्येन इव चितः श्येनचित् ।

३००३ । कर्मणीनि विक्रियः । (३-२-९३)

कर्मण्युपपदं विपूर्वत्क्रीणातेरिनिः स्यान् । * कुत्सितग्रहणं कर्तव्यम् (वा २०४७) । सोमविक्रयी । घृतविक्रयी ।

३००४ । दृशेः कनिप् । (३-२-९४)

कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ।


सुकर्मादिषु भूत एव कृञ्ज इति, त्रिविध इत्यर्थ । अण नेति ॥ त्क्तवतुस्तु भवत्येव, सोप पदप्रत्ययस्यैव नियमेन व्य.वृत्तरिति भावः । स्वादष्ववात ॥ सुकमादषु पश्चास्वत्यथ । सोमे सुञ्जः ॥ सोमे कर्मण्युपपदे भते सुनोतेः किबित्यर्थः । चतुर्विध इति ॥ पूर्व वद्याख्येयम् । एवमिति ॥ “अप्रैौ चेः’ इत्युत्तरसूत्रेऽपि चतुर्विधो नियम इत्यर्थः । अग्रेौ चेः ॥ अझै कर्मण्युपपदे भूतार्थवृत्तश्चिनोतेः क्रिस्यादित्यर्थः । अग्निचिदिति ॥ अग्न्याख्यं स्थण्डिलविशेषमिष्टकाभिश्चितवानित्यर्थः । कमेण्यग्न्याख्यायाम् ॥ कर्मणीत्यनुवृत्तमुपपद समर्पकम् । अत्रत्यन्नु कर्मणीत्येतत्प्रत्ययार्थसमर्पकम् । तथा चात्र कर्तरीति न सम्बध्यते । तदाह । कर्मण्युपपदे इत्यादि । विनोतेरिति ॥ भूतार्थादित्यपि बोध्यम् । श्येन इवेति ॥ इयनशब्दः श्येनसदृशे लाक्षणिक इति भाव । इयेनाकृतिक इात यावत् । कर्म णीनि विक्रियः ॥ इनि इत्यविभक्तिकम् । विपूर्वस्य क्रीञ्धातोर्विक्रिय इति पञ्चम्यन्तम् । कुत्सितेति । कुत्सिते कर्मण्युपपदे उक्तविधिर्भवतीत्यर्थः । सोमविक्रयीति ॥ सोमद्रव्यञ्च विक्रीयमाण विक्रेतुः कुत्सामावहति, तद्विक्रयस्य निषिद्धत्वादिति भाव । दृशेः कनिप् ॥ 'आतो मनिन्छकनिव्वनिपश्च, अन्येभ्योऽपि दृश्यन्ते' इत्येव कनिपि सिद्धे तत्सहचरित मनिनादिव्यावृत्त्यर्थमिदम् । सोपपदाणादिबाधनार्थश्च । निष्ठा तु भवत्येव, सोपपदप्रत्ययस्यैवात्र