पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५३१
बालमनोरमा ।

३००५ । राजनि युधिकृञ्जः । (३-२-९५)

कनिप् स्यात् । युधिरन्तभर्भावितण्यर्थः । राजानं योधितवान्राजयुध्वा। राजकृत्वा ।

३००६ । सहे च । (३-२-९६)

३००७ । सप्तम्यां जनेर्डः । (३-२-९७)

सरसिजम् । मन्दुरायां जातो मन्दुरज । “ डु-यापी :- (सू १८ ०१) इति ह्रस्वः । ३००८ । पञ्चम्यामजातौ । (३-२-९८) जा तिशब्दवर्जिते पचैवमन्यन्त उपपदे जनेर्डः स्यान् । संस्कारज । अद्वष्टजः ।

३००९ । उपसर्गे च संज्ञायाम् । (३-२-९९)

'प्रजा स्यात्सन्तता जन्म ' ।

३०१० । अनैौ कर्मणि । (३-२-१००)

अनुपूर्वाञ्जनेः कर्मण्युपपदे डः स्यान् । पुमांसमनुरुध्य जाता पुमनुजा ।

३०११ । अन्येष्वपि दृश्यते । (३-२-१०१)

अन्येष्वप्युपपदेषु जनेर्डः स्यान् । अजः । द्विजो ब्राह्मण: । (ब्राह्मणजः) अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तरेष्वपि काचवन् । परितः खाता परिखा ।


पुनः किव्ग्रहणेन निवृत्तेः, पार दृष्टवान् । राजनि युधिकृञ्जः ॥ युधि, कृङ अनयोस्समाहारद्वन्द्वात्पञ्चमी । कनिप् स्यादिति ॥ राजनि कर्मण्युपपदे भूतार्थाद्युधेः कृञ्जश्च कनिबिल्यर्थः । ननु युधेरकर्मकत्वात् तत्र कर्मण्युपपदे इत्यस्य कथमन्वय इत्यत आहं । युधिरन्तर्भावितेति ॥ राजकृत्वेति ॥ राजान कृतवानित्यर्थ । सहे च ॥ सहशब्दे उपपदे युधिकृञ्भ्या कनिबित्यर्थः । सप्तम्याञ्जनेर्डः ॥ सप्तम्यन्ते उपपदे जनः भूताथाडु इत्यथ । सरसिजमिति ॥ डित्वसामथ्र्यादभस्यापि टेलॉप' । “हलदन्तात्’ इति “तत्पुरुषे कृति' इति वा अलुक् । मन्दुरज इति ॥ “वाजिशाला तु मन्दुरा' इत्यमरः । पञ्चम्यामजातौ ॥ जनेरिति ॥ भूतार्थादिति शेष । संस्कारजमिति ॥ सस्काराञ्जातमि त्यर्थः । उपसर्गे च ॥ जनेर्ड इति शेषः । सज्ञायामिति समुदायोपाधि’ । अनौ कर्मणि ॥ ननु जनरकमकत्वात्तत्र कमण्युपपद इत्यथस्य कथमन्वय इत्यत आह । पुमास्समनुरुध्यात ॥ अनुरुध्य जनन धात्वर्थ इति भाव । पुमनुजेति ॥ पुस् इति पूर्वपद सयोगान्तलोप इति भावः । अन्येष्वपि दृश्यते ॥ आज इति ॥ न जात इत्यर्थः । द्विजो ब्राह्मण इति ॥ द्विजतः इत्यर्थः । “मातुर्यदग्र जायन्ते द्वितीय मैञ्जिबन्धनान्” इत्यादिस्मृतेरिति भावः । अपिशब्द इति ॥ 'सप्तम्याञ्जनेर्डः' इत्यादिसूत्रेषु डविधिषु यानि विशेषणान्युपात्तानि