पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५२५
बालमनोरमा ।

२९८६ । गमः की । (६-४-४०)

अनुनासिकलोपः स्यान् । अङ्गगत् । “गमादीनामिति वक्तव्यम्' (वा ४०७६) । पुरीतन् । संयन् । सुनत् । * ऊ च गमादीनामिति वक्तव्यं

२९८७ । स्थः क च । (३-२-७७)

चात्वकम् । शस्थः । ३शस्थाः । * शामधाताः- (सू २९२८) इत्यच्च बाधितुं सूत्रम् ।

२९८८ ॥ सुप्यजातौ णिनिस्ताच्छील्ये । (३-२-७८)

अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी ! 'अजातौ' किम् | ब्राह्मणानामन्त्रयिता । “ ताच्छील्ये' किम्


किपि ‘रालोपः’ इति वकारस्य लोपे सुलोपे ‘र्वो.' इति दीर्घ धूरिति रूपमिति भावः । गमः कौ ॥ अनुनासिकलोपः स्यादिति ॥ शेषपूरणमिदम् । 'अनुदात्तोपदेश' इत्यतस्तदनुवृत्तेरिति भावः । झलादिप्रत्ययपरकत्वाभावात् अनुदात्तोपदेशेल्यप्राप्तौ वचनम् । अङ्गगदिति ॥ अङ्गाख्य देशं गच्छतीति विग्रहः । किपि मकारलोपे तुक् । एव वङ्गगत्कळिङ्गगदित्यादि । गमादीना मिति ॥ कावनुनासिकलोप इति शेष । पुरीतदिति ॥ पुरिः हृदयाख्यः मांसखण्डविशेषः । तन्तनोति आच्छादयतीति विग्रहः । हृदयकमलाच्छादको मेदोविशेष. । “पुरीतदा हि हृदय माच्छाद्यते” इति श्रुतिरिति कर्किभाष्यम् । तनेः किपि नकारलेोपे तुक् । “नहिवृतिवृषि इति पूर्वपदस्य दीर्घ. । संयदिति । यमेः किंप् । मलोपे तुक् । सुनदिति ॥ नमेः किपि मलोपे तुक् । ऊ चेति । गमादीनामुपधायाः ऊभावश्चेति वक्तव्यमित्यर्थः । लोपश्चेति । चकारादनुनासिकलोपः समुच्चीयते इति भावः । अग्रेगूरिति । अप्रे गच्छतीति विग्रहः । गमेरकारस्य ऊभावः मलोपश्च “तत्पुरुषे कृति बहुळम्' इत्यलुक् । अग्रेधूरिति ॥ भ्रमरकारस्य ऊभावः, मलोपश्च । स्थः क चव । केत्यविभक्तिकम् । स्थ इति पञ्चम्यन्तम् । चात् किबिति । उपसर्गे अनुपसर्गे च सुबन्त उपपदे स्थाधातोः कप्रत्ययः स्यान् किप् चेति फलितम् । शंस्थ इति । शमित्यव्यय सुखे । तत्पूर्वात् स्थाधाताः कप्रत्यय आता लाप । शांस्था इति । किपि रूपम् । सुख स्थापयतीत्यर्थः तिष्ठतिरन्तर्भावितण्यर्थ । शस्था इति भाष्यप्रयोगात् पृषोदरादित्वाच 'घुमास्था' इति ईत्वन्न। केचित्तु कचेति चकारात् विजवानुकृष्यते इत्याहु । ननु ‘सुपि स्थः’ इति कप्रत्यये “किप् च' इति किपि च सिद्धे किमर्थमिदमित्यत आह । शामिधातोरित्यचमिति । अन्यथा धातुग्रहणसामथ्र्यात् कृो हेत्वादिषु टप्रत्ययमिव शम्पूर्वात् स्थाधातोः कं किपञ्च अच्प्रत्ययो बाधेतेति भाव । सुप्यजातौ णिनिस्ताच्छील्ये । “सुपि स्थ' इत्यतः सुपीत्यनुवृत्तौ पुन सुब्ग्रहणमुपसर्गेऽपि विधानार्थम् । अन्यथा ' आतोऽनुपसर्गे' इत्यतः अनुपसर्गे इत्यनुवर्तत ।