सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२४
[कृदन्त
सिध्दान्तकौमुदीसहिता


शास इन्– (सू २४८६) इतीत्त्वम् । मित्राणि शास्ति मित्रशीः । “आशा सः कौ उपधाया इच्वं वाच्यम्' (वा ४०७०) । आशीः । इत्त्वोत्वे । गीः । पूः ।

२९८५ । इस्मन्त्रन्विकषु च । (६-४-९७)

एषु छादेह्रस्वः स्यान् । तनुच्छन् । “ अनुनासिकस्य कि -' (सू २६६६) इति दीर्ध । 'मा नो धातोः' (सू ३४१) । प्रतान् । प्रशान् । 'च्छेः -' (सू २५६१) इत्यूट् । अक्ष्यू । ‘ज्वरत्वर-' (सू २६५४) इत्यूट् । जूः । जूरौ । जूरः । तृः । नृ ऊट्, वृद्धिः, जनानवतीति जनौ जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्व । *रालाप (सू २६५५) । मुछी, मूः । मुरौ । मुरः । धुर्वी, धूः ।


न डिसम्बुध्योः' इति निषेधान् । मित्रशीरिति ॥ मित्राणि शास्तीति विग्रहः । शासेः किम् शास इदइहलोः'इन्युपधाया इत्वम्,'वरुपधाया.'इति दीर्घः। मित्रशिषाविल्यादौ अपदान्तत्वान्न दीर्घः । आशासः काविति ॥ “आइ शासु इच्छायाम्' इत्यात्मनेपदी । तस्य “शास इदइहलोः' इति इत्त्वन्तु न भवति । तत्र परस्मैपदिन एव शासग्रहणात् । अन्यथा आशास्ते इत्यादावपि इत्वापत्तेः । अत: आशासः क्राविति विधिः । इत्वोत्त्वे इति ॥ गृधातोः िकपि , ऋत इत्वे, रपरत्व, सोलॉपे, “वॉरुपधायाः’ इति दीर्धे, गीरिति रूपम् । पृधातोः किपि उदोष्ठयपूर्वस्य' इति ऋतः उत्चे, रपरत्वे, सुलेोपे, उपधादीधे पूः इति रूपमित्यर्थः इस्मन्त्रन् ॥ इम्, मन्, त्रन्, कि, एषाश्चतुर्णान्द्वन्द्वः । ‘छादर्धेऽद्वयुपसर्गस्य’ इत्यतः छादेरिति खचि हस्वः' इत्यतः हस्व इति चानुवर्तते । तदाह । एषु छादेरिति ॥ अर्थादाकारस्येति गम्यते । अलोऽन्त्यपरिभाषामाश्रित्य इकारस्य हस्वविधौ प्रयोजनाभावात् । एवञ्च ‘ऊदुपधाया इत्यतः उपधाया इति नानुवर्तनीयम् । ण्यन्तस्य छादेर्दकारोपधत्वात् । इस् छदिः, मन् छद्र, त्रन् छत्त्रम् । कौ उदाहरति । तनुच्छदिति ॥ तनु छादयतीति विग्रहः । अथ तनेश्शमेश्च विपि विशेषमाह । अनुनासिकस्येति ॥ अक्षवृरित्यत्र आह । च्छोरिति ॥ अझैदव्यतीति विग्रहे दिवधातो ििप वकारस्य ऊठि इकारस्य यणिति भावः । ज्वरेति ॥ ज्वरधातोः किपि अकारवकारयोरेकस्मिन् ऊठि जूरिति रूपम् । एवं त्वरेः तूरिति रूपम् । स्रिवेः किपि इकारवकारयेोरूठि सूरिति रूपम् । अवधातोः किपि अकारवकारयोरूठि ऊरिति रूपम् । वृद्धिरिति ॥ जनानवतीति विग्रहे, अवेः किपि, अकारवकारयोरूठि, जन ऊ इति स्थिते, आदुणं बाधित्वा 'एत्येधत्यूठसु ’ वृद्धिरौकारादेश इत्यर्थः । मूरिति ॥ इत मवे' किपि, अकारवकारयोरूठ्। सुम्वौ, सुम्वः इति ॥ अनेकान्त्वात् गतिपूर्वत्वाञ्च यणिति भावः । रादिति ॥ मुछौधातोः किपि ‘रालोपः’ इति छकारस्य लोपे सुलोप “वः’ इति दीर्घ मूरिति रूपम् । मुरौ, मुरः इति ॥ अपदान्तत्वान्नोपधादीर्घः । धुर्वीति ॥ धुर्वीधातो