पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५२३
बालमनोरमा ।


२९८० । अन्येभ्योऽपि दृश्यन्ते । (३-२-७५)

छन्दसीति निवृत्तम् । मनिम् कनिप् वनिप् विच् एते प्रत्ययाः धातोः स्युः ।

२९८१ । नेड़शि कृति । (७-२-८)

वशादेः कृत इण्न स्यान् । शू, मुशर्मा । प्रातरित्वा ।

२९८२ । विड़नोरनुनासिकस्याऽऽत । (६-४-४१)

अनुनासिकस्य आत्स्यान् । विजायत इति विजावा । ओणू, अवावा । विच्, रोट् । रेट् । सुगण्

२९८३ । केिप्च । (३-२-७६)

अयमपि दृश्यते । “सत्सूद्विष–’ (सू २९७५) इति त्वस्यैव प्रपञ्चः। उखास्रत् । पर्णध्वन् । वाहभ्रट्

२९८४ । अन्तः । (८-४-२०)

पदान्तस्यानतनस्य णत्व स्यादुपसर्गस्थान्निमित्तात्परश्रेत् । हे प्राण ।


इति विग्रहः । अन्येभ्योऽपि दृश्यन्ते ॥ 'विजुपे छन्दसि ' ' आतो मनिन्कनिव्वनिपश्च इत्यधिकारे इद सूत्रम् । निवृत्तमिति ॥ व्याख्यानादिति भावः । मनिनि अन्यो नकार इत् इकार उच्चारणार्थ । कनिपि वनिपि व पकार इन्, इकार उच्चारणार्थः । विचि चकार इत्, इकार इन् । नेङ्कशि कृति ॥ षष्ठयर्थे समम्यौ । वशा कृद्विशेष्यत । तदादिविधिः । तदाह । वशादेरिति ॥ सुशर्मेति ॥ शृधातोर्मनिन् । प्रातरित्वेति ॥ इण्धातोः कनिप् । विडूनोरनुनासिकस्याऽऽत् ॥ विडुनेोरिति सप्तमी । अनुनासिकस्य आदिति छदः । विजावेति ॥ जनर्वनिप् । जनेर्नकारस्य आकारः । सवर्णदीर्घः । अवावेति ॥ ओणेर्वनिप् । णकारस्य आकारः अवादेश. । विजिति ॥ उदाह्रियते इति शेषः । रोट् , रेडिति ॥ 'रुष रिष हिंसायाम्' विच । ‘वेरपृक्तस्य’ इति वलोप । सुगणिति ॥ गणेर्विच् । धिकप् च ॥ अयमपीति ॥ सर्वधातुभ्यस्सोपपदेभ्यः निरुपपदभ्यश्च छन्दसि लोके च किप् दृश्यते इत्यर्थः । नन्वनेनैव सिद्धे ‘सत्सूद्विष' इति सूत्र व्यर्थमित्यत आह । सत्सूद्विषेति ॥ 'सत्सूद्विष' इति सूत्रन्तु ‘किप् च' इत्यस्यैव प्रपञ्च इत्यर्थः । उखास्रदिति ॥ उखायास्त्रंसत इति विग्रहः । स्रसे: किप्, ‘अनिदिताम्’ इति नलोपः, 'वसुस्रसु' इति दत्वम् । एव पर्णध्वत् । पर्णात् ध्वंसत इति विग्रहः । वाहभ्रडिति ॥ वाहात् भ्रश्यति इति विग्रहः । त्रश्चादिना षः । अन्तः ॥ “ अनिते: इति सूत्रमनुवर्तते, ‘रपाभ्या नो णः’ इति च । अन्तः इति षष्ठ्यर्थे प्रथमा। पदस्यान्तो विवक्षितः । उपसर्गादसमासेऽपि' इत्यतः उपसर्गादित्यनुवर्तते । तदाह । पदान्तस्येत्यादिना ॥ हे प्राणिति ॥ प्रपूर्वादनेः क्रिबन्तात् सम्बोधनैकवचनस्य हल्डयादिलोपः, नस्य णः । नलोपस्तु न,