एभ्यः किप्स्यादुपसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रधुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि । “अंग्रामाभ्यां नयतेणे वाच्यः' (वा ५०६४) । अग्रणी । ग्रामणीः ।
२९७६ । भजो ण्विः । (३-२-६२)
सुप्युपसर्गे चोपपदे भजेण्विः स्यात् । अंशभाक् । प्रभाक् ।
२९७७ । अदोऽनन्ने । (३-२-६८)
विट् स्यात् । आममति आमात् । सस्यात् । “ अनन्ने' किम् । अन्नादः ।
२९७८ । क्रव्ये च । (३-२-६९)
अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् । आममांस भक्षकः । कथं तर्हि 'क्रव्यादोऽस्रप आशरः' इति । पकमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः, पृषोद्रादित्वात् ।
२९७९ । दुहः कब्घश्च । (३-२-७०)
तेन ‘वदस्सुपि क्यप् च' इति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम् । द्युसदिति ॥ दिवि सीदतीति विग्रहः । “सात्पदाद्यो' इति न षत्वम् । “पूर्वपदात्' इति षत्व तु न भवति, तस्य च्छान्दसत्वात् । “ आदितेया दिविषदः’ इत्यत्र सुषामादित्वात् षत्वमित्याहुः । उपनिषदिति ॥ ‘सदिरप्रतेः' इति षत्वम्। इत्यादीति । काष्टाभित्, रज्जुच्छित्, शत्रुजित्, अत्र ‘हस्वस्य पिति’ इति तुक्। सेनानी, विराट्। अग्रग्रामाभ्यामिति । असमानपदत्वादप्राप्त णत्वे वचनम् । भजो णिवः ॥ सुप्युपपदे भजेण्विरित्यर्थः । अंशभागिति ॥ णित्वादुपधावृद्धिः । अदो ऽनन्ने ॥ विट् स्यादिति ॥ शेषपूरणमिदम् । अन्नशब्दभिन्ने सुप्युपपदे अदेर्विट् स्यादिति फलितम् । 'जनसनखनक्रमगमो विट्’ इति छान्दससूत्राद्विडिल्यनुवर्तते । सस्यादिति ॥ सस्यमत्तीति विग्रहः । अन्नाद् इति ॥ कर्मण्यण् । क्रव्ये चव ॥ अदेर्विडिति ॥ शेषपूरण मिदम् । अण्बाधनार्थमिति ॥ क्रव्ये अदेर्विडेव न त्वणित्यर्थलाभादिति भावः । कथ न्तहति ॥ कव्ये उपपदे अदेर्विडेवेति नियमादणेोऽसम्भवादित्याक्षेपः । समाधत्ते । पधक मांसशब्द इति ॥ तर्हि पकमांसाद इति स्यादित्यत आह । उपपदस्य क्रव्यादेश इति । कुत इत्यत आह । पृषोद्रादित्वादिति । दुहः कब्घश्च ॥ सुप्युपपदे दुहे कप्स्यात् प्रकृतेर्धश्चान्तादेश इत्यर्थः । कामदुघेति ॥ धनुरिति शेषः । काममपेक्षितन्दुग्धे १. *पूर्वपदात्संज्ञायामग:' (सू ८५८) इति सूत्रेणेति भावः । अपूर्ववचनत्वे तु 'ग्राम नयनस्य' इति प्रन्थविरोधः ।