२९७४ । कर्तरि भुवः खिष्णुच्खुकऔौ । ३-२-५७)
आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्त । अनाढ्यः आढयो भवतीति आढयम्भविष्णुः । आढयम्भावुकः । ‘स्पृशोऽनुदके किन्’ (सू ४३२) । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । “ऋत्विग्द धृक्स्रग्दिगुष्णिगचुयुजित्रुकुचवां च' (सू ३७३) व्याख्यातम् । “त्यदादिषु दृशोऽनालोचने कश्च' (सू ४२९) । “समानान्ययोश्चेति वाच्यम्' (वा २०२९) । सद्यटक्-सटश । अन्यादृक्-अन्यादृशः । “क्सोऽपि वाच्य (वा २०३०) । तादृक्षः । सदृक्षः । अन्याद्यक्षः ।
२९७५ । सत्सूद्विषदुहृदुहयुजविदभिद्च्छिद्जिनीराजामुपसर्गेऽपि किप् । (३-२-६१)
यदि ल्युडपवादख्युनभावे उत्सर्गभूतो ल्युट् स्यात्, तदा ख्युन्विधिरनर्थकः स्यात् । च्व्यन्ते उपपदे ख्युन्ल्युटोः रूप विशेषाभावात् । नच ख्युनि मुम्, ल्युटि तदभावः इत्यस्ति विशेष इति बाच्यम् । च्विप्रत्ययान्तस्याव्ययत्वेन ख्युनि सत्यपि मुमभावात् । “अरुद्विषदजन्तस्य इत्यत्रानव्ययस्येत्यनुवृत्तेः । एवञ्च “अच्वौ' इति च्व्यन्ते उपपदे ख्युनः प्रतिषेधसामथ्र्यात् ख्युनभावे ल्युडपि नेति विज्ञायत इति काशिकामतमित्यर्थः । एवञ्च 'अच्वौ' इति च्व्यन्ते उपपदे ख्युन्प्रतिषेधः ख्युनभावपक्षे ल्युडभावार्थ इति स्थितम् । भाष्यमते त्विति ॥ भाष्ये “ख्युनि च्विप्रतिषेधानर्थक्यम् । ल्युट्ख्युनोरविशेषात् । मुमर्थमिति चेन्न, अव्ययत्वात्' इत्यादिसन्दर्भेण अच्विग्रहण ख्युन्विधा प्रत्याख्याच 'अच्वौ' इत्युत्तरार्थमित्युक्तम् । तन्मते तु व्यन्त उपपद ख्युना मुक्त ल्युट् स्यादवत्यथ । कर्तरि भुवः ॥ खिष्णुचि खचावितौ । खुकलि खञ्जावितौ । आढ्यम्भविष्णुरिति । अनाढ्यः आढ्यो भवतीति विग्रहः । आाढ्य म्भावुक इति । जित्वादृद्धिः । करणग्रहणानुवृत्तिनिवृत्तये कर्तृग्रहणम् । खिष्णुवि इकारस्तु व्यर्थ एव । इटा सिद्धे । अच्वौ किम् । आढ्यीभविता । स्पृशोऽनुदके किन्निति ॥ व्याख्यात हलन्ताधत्रकार । निवृत्तमिति । अत्र व्याख्यानमेव शरणम् । समानान्ययो श्रेति । अनयोपपदयोः दृशः किन्कब्जावित्यर्थः । सदृक्-सदृश इति । समानो दृश्यते इति न विग्रह. । कतैर्येव किन्विधानात् । किन्तु कर्मकर्तरि किन्कजैौ । समान पश्यतीति विग्रहः । समान्त्वेन ज्ञानविषयो भवतीत्यर्थ इति भाष्ये स्पष्टम् । “दृग्दृशवतुषु' इति समानस्य सभावविकल्प । तत्र 'विभाषेोदरे' इत्यतः विभाषानुवृत्तेः समानदृक् सदृक् समानदृश सदृशः इति भाष्याच । अन्यादृगिति । ‘आ सर्वनाम्रः’ इत्यात्वम् । क्सोऽपीति । त्यदादिषु समानान्ययोश्च दृशेः क्सोऽपि वाच्य इत्यर्थः । सत्सूद्विष ॥ सद्, सू, द्विष, दुह, दुह, युज, विद, भिद, छिद, जि, नी, राज्, एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी । अनुपसर्गे इत्यस्य निवृत्यैव सिद्धे उपसर्गेऽपीति वचनम् अन्यत्र सुब्ग्रहणे उपसर्गग्रहण नेति ज्ञापनार्थम् ।