पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२०
[कृदन्त
सिध्दान्तकौमुदीसहिता


जायान्नस्तिलकालकः । पतित्री पाणिरेखा । पित्तत्रं घृतम् । ‘अमनुष्य इति किम् । आखुघातः शूद्र । अथ कथं “बलभद्रः प्रलम्बन्नः, शत्रुन्नः, कृतन्न इत्यादि । मूलविभुजादित्वात्सिद्धम् । चोरघातो नगरघातो हस्तीति तु बाहुल कादाण

२९७१ । शक्तौ हस्तिकवाटयोः । (३-२-५४)

हन्तेष्टक्स्याच्छक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिन्नो ना कवाटन्नश्चोरः । कपाटेति पाठान्तरम् ।

२९७२ । पाणिघताडघौ शिल्पिनि। (३-२-५५)

हन्तेष्टक्टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघ । ताडघः । “शिल्पिनि' किम् । पाणिघात: । ताडघात : । “ राजघ उपसङ्ख-यानम् (वा २०२२) । राजानं हन्ति राजघः ।

२९७३ । आढ्यसुभगस्थूलपलितनझान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञ्ज करणे ख्युन् । (३-२-५६)

एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञ्जः ख्युन्स्यात् । अनाढ्यमाढ्यं कुर्वन्त्यनेन आढ्यंकरणम्। अच्वौ किम्। आढ्यीकुर्वन्त्यनेन । इह प्रतिषेधसाम थ्र्याल्ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ।


प्रवृत्तिरित्यारम्भ. । अथ कथमिति । प्रलम्बन्नादौ हन्तेर्मनुष्यकर्तृकतया टकोऽसम्भवादि त्याक्षेपः। समाधत्ते । मूलविभुजादित्वात्सिद्धमिति । कप्रत्ययेनेति भावः । ननु चोरघातो हस्तीत्यादि कथम् । अमनुष्यकर्तृकत्वेन हन्तेष्टको दुर्वारत्वादित्यत आह । चोरघात इत्यादी ति ॥ बाहुळकादणीति । “कृत्यल्युटो बहुळम्' इति बहुळग्रहणादणि समाधेयमिति भावः । शक्तौ हस्तिकवाटयोः ॥ हस्तिन्न इति । हस्तिन हन्तु शक्त इत्यर्थः । एवं कवाटघ्रः । पाणिघताडधौ । पाणिना हन्तीति पाणिघ । ताड: ताडन तेन हन्तीति ताडघः । मछादिः । राजघ उपसङ्खयानमिति ॥ राजघशब्दे उक्तनिपातनस्य उप सङ्कयानमित्यर्थः । आढ्यसुभग ॥ आढ्य, सुभग, स्थूल, पलित, नम, अन्ध, प्रिय एषां सप्ताना द्वन्द्वात्सप्तमी । ख्युन् स्यादिति करणे वाच्ये इति शेष करणयोश्च' इति ल्युडपवादोऽयम् । कर्तरीति तु अत्र न सम्बछद्यते । आढ्यङ्करणमिति । राजाद्यनुवर्तनमिति शेष कृञ्जः ख्युन् अनादेशः, “अरुद्विषदजन्तस्य’ इति मुम् सुभगङ्करणामित्याद्यप्युदाहार्यम् । आढ्यीकुर्वन्त्यनेनेति । अत्रांच्वप्रत्ययसत्वात् न ख्युन्निति भावः । ननु ल्युडपवादभूतख्युनभावपक्षे उत्सर्गभूतो ल्युट् कुतो नेत्यत आह । इहेति ।