पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५१९
बालमनोरमा ।


२९६६ ।। आशिषि हनः । (३-२-४९)

शत्रु वध्याच्छत्रुहः । “ आशिषि' किम् । शत्रुघात । *दारावाहनो ऽणन्तस्य च टः संज्ञायाम्' (वा २०१९) । दारुशब्द उपपदे आङ्पूर्वाद्धन्ते रण टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः । ‘चारौ वा' (वा २०२०) । चार्वाघाटः-चार्वाघातः । “कर्मणि समि च' (वा २०२१) । कर्मण्युपपदे वणान्संहन्तीति वर्णसङ्काट पदसङ्कट

२९६७ । अपे शतमसेोः । (३-२-५०)

अपपूर्वाद्धन्तेर्डः स्यान् । अनाशीरर्थमिदम् । शापहः पुत्रः ।

२९६८ । कुमारशीर्षयोर्णिनिः । (३-२-५१)

कुमारघाती । शिरसः शीर्षभावो निपात्यते शीर्षघाती ।

२९६९ । लक्षणे जायापत्योष्टक् । (३-२-५२)

हन्तेष्टक्स्यालक्षणवति कर्तरि । जायान्नेो ना । पतिम्री स्री ।

२९७० । अमनुष्यकर्तृके च । (३-२-५३)


इति ॥ खचि तु मुमि विहङ्गम इति रूपम् । आशिषि हनः ॥ कमण्युपपद हन्तडः स्यात् अाशाष गमन्यायामत्यथ आशीरभावाहुभावे अण् हनस्त' इति तत्वम् । दारावाहन इति । वार्तिकमिदम् । दारौ, आहनः अण् अन्तस्येति च्छेद । अण्णसन्नियोगेन टत्वविधानार्थमिदम् । चारौ वेति । वार्तिकमिदम् । चारुशब्दे उपपदे आङ्पूर्वाद्धन्तेः अण् अन्तस्य टः वा स्यादित्यर्थ । कर्मणि समि चेति ॥ वार्तिकमिदम् । उक्तं वेति ॥ अण् अन्तस्य टः इत्यर्थः । वाराविल्यस्यानुवृत्तिनिवृत्तये कर्मेणीत्युक्तिः । अपे कुशतमसो ॥ ‘आशिषि हनः’ इत्येव सिद्धे किमर्थमिदमित्यत आह । अनाशीरर्थमिति । कुमारशीर्षयोर्णिनि । अनयोरुपपदयोः हन्तर्णिनिः स्यादित्यर्थः । नकारादिकार उच्चारणार्थः । लक्षणे ॥ लक्षणवतीति ।। सूत्रे लक्षणशब्दः अशअाट्यजन्त इति भाव । जायाघ्रो नेति ॥ जायाहनसूचकलक्षणवान् पुरुष इत्यर्थः । 'गमहन इत्युपधालाप । पतिम्री स्त्रीति ॥ पतिहननसूचनलक्षणवतीत्यर्थः । टित्वात् डीप् । अमनुष्य । अमनुष्यकर्तृके धात्वर्थे वर्तमानाद्धन्तेः कर्मण्युपपदे टगित्यर्थः । जायाघ्र स्तिलकालक इति ॥ तिलाकृतिकृष्णबिन्दुरित्यर्थः । । पूर्वसूत्रस्य लक्षणवति कर्तरि