विश्धं बिभतति विश्वम्भरः । विश्वम्भरा । रथन्तरं साम । इह रथंन तरतीति व्युत्पत्तिमात्रं, न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुञ्जयो हस्ती । युगन्धरः पवेत । शत्रुसहः। शत्रुन्तपः । अरिन्दमः । दमिः शमनायाम् तन सकमक इत्युक्तम् । मतान्तर तु अन्तर्भावितण्यर्थोऽत्र दमि
२९६४ । गमश्च । (३-२-४७)
२९६५ । अन्तात्यन्ताध्वदूरपारसर्वनन्तेषु डः । (३-२-४८)
संज्ञायामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्वसामथ्र्याद्भस्यापि टेलोपः । अन्त गच्छतात्यन्तग इत्याद् । * सर्वेत्रपन्नयोरुपसङ्ख-यानम् (वा २०१४) । सर्वत्रग. । पत्रं पतितं गच्छतीति पन्नग । पन्नमिति पद्यते क्तान्तं क्रियाविशेषणम् । ‘उरसो लोपश्च' (वा ५०१५) । उरसा गच्छती त्युरगः । “सुदुरोरधिकरणे' (वा २०१६) । सुखेन गच्छत्यत्र सुगः । दुर्गः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्’ (वा २०१८) । ग्रामग । “डे च विहायसो विहादेशो वक्तव्यः' (वा २०१२)-विहगः ।
विश्वम्भर इति ॥ विष्णोरिय संज्ञा । विश्वम्भरेति ॥ पृथिव्या सज्ञा इयम् । रथन्तरः मिति ॥ तृधातोः खच् । रथेन तरितृत्वस्य सामविशेषे असम्भवादाह । इहेति ॥ वृधातो रुदाहरति । पर्तिवरेति ॥ शत्रुञ्जय इति ॥ जिधातो. खञ् । धारीति ण्यन्तग्रहण, तस्येो दाहरति । युगन्धर इति ॥ युग धारयतीति विग्रहः । 'खाच हस्व.' इत्युपधाहस्व, णिलोपः । शत्रुसह इति ॥ शत्रून् सहते इति विग्रह । हृस्वादि पूर्ववत् । एवमग्रेऽपि । शत्रुन्तप इति ॥ शत्रून तपतीति विग्रहः । अरिन्दम इति ॥ अरिषु निग्रहविषये शाम्यतीत्यर्थः । दमिः शमनायामिति ॥ 'दमु उपशमे' इति धातुपाठे उपशमशब्दे शमे ण्र्यन्तात् घञ् । तथाच दाम्यतीत्यस्य उपशमयतीत्यर्थाश्रयणात् सकर्मकत्वामिति माधवादिमते सकर्मकोऽयमित्यर्थः । मतान्तरे त्विति ॥ ‘दमु उपशमे' इत्युपशमार्थस्य दमेरकर्मकत्वामति हरदत्तादिभिरुक्तमित्यर्थ । गमश्च ॥ सञ्जाया खजिति शेष । अन्तात्यन्त ॥ इत्याद व्यक्तम् । सर्वत्रपन्नयोरिति ॥ सर्वत्रशब्दे पन्नशब्दे चोपपदे गमेर्डस्योपसङ्कयानामित्यर्थ उरस इति । उरसि उपपदे गमेर्ड. उरश्शब्दान्यस्य लोपश्चेति वक्तव्यमित्यर्थः । सुदुरो रिति ॥ सु दुर् अनयोरुपपदयोर्गमेर्डः स्यात् अधिकरणे वाच्य इत्यर्थ । अन्यत्रापि दृश्यत इति । अन्यष्वप्युपपदषु अन्यभ्याऽपि धातुभ्य. डा दृश्यत इत्यथ . । अनेनैव सिद्धे ‘सर्वत्रपन्नयो.' इत्यादि प्रपञ्चार्थमेव । एवञ्च सप्तम्याञ्जनेर्ड.’ इत्यत्रापि ‘अन्येष्वपि दृश्यते’ इति प्रपञ्चार्थमेव । डे चेति ॥ विहायसो विह चेत्युक्तस्य खज्विषयत्वादिद वचनम् । विहग