पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५१५
बालमनोरमा ।

२९५१ । असूर्यललाटयोद्वैशितपोः । (३-२-३६)

असूर्यमित्यसमर्थसमास न्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ।

२९५२ । उग्रम्पश्येरम्मदपाणिन्धमाश्च । (३-२-३७)

एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे द्वशेः खश् । उग्रं पश्यतीत्युग्रम्पश्य: । इरोदकं तेन माद्यति दीप्यतेऽविन्धनत्वादिति इर म्मदो मेघज्योति: । इह निपातनाच्छयन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणि न्धमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पद्यपनोदनाय पाणय

२९५३ । प्रियवशे वदुः खच् । (३-२-३८)

प्रियंवदः । वशंवदः । “गमेः सुपि वाच्यः' (वा २००९) असंज्ञा र्थमिदम् । मितङ्गमो हस्ती । “विहायसो विह् इति वाच्यम्' (वा २०१०) । खञ्च डिद्वा वाच्य:’ (वा २०११) । विहङ्गः-विहङ्गमः । भुजङ्गः-भुजङ्गमः ।


सकारस्य सयोगान्तलोप इत्यर्थः । अरुन्तुद इति ॥ अरुर्मर्म तत्तुदतीति विग्रहः । असूर्यललाट ॥ दृशितपेरिति पञ्चम्यर्थे षष्ठी । असूर्ये ललाटे च कर्मण्युपपदे दृशेस्तपश्च खशिल्यर्थः । असूर्यमितीति ॥ असूर्यम्पश्या इत्युदाहरणे असूर्यमित्यसमर्थसमासस्सौत्र इत्यर्थः । कुतोऽसामथ्र्यमित्याह । दृशिनेति ॥ सूर्यन्न पश्यन्तीत्यर्थे नो दृशिनान्वितत्वेन सूर्यशब्दनान्वयाभावादित्यर्थ । ललाटन्तपस्सूर्य इति ॥ ललाटन्तपतीति विग्रहः । सूर्यम्पश्यतेो ललाटस्य अवश्यन्तापादिति भाव । उग्रम्पश्य ॥ उग्रम्पश्य, इरम्मद, पाणिन्धम, एषान्द्वन्द्व । उग्रम्पश्य इति ॥ खशि शप्, पश्यादेशः । इराशब्दस्य विवरणम् । उदकमिति ॥ इरम्मद इति ॥ “खिल्यनव्ययस्य' इति हस्वः। मदेदैवादिकत्वात् इयनमाशङ्कय आह । निपातनाच्छयत्रेति ॥ पाणिन्धम इति ॥ शपि “पाघ्रा' इति धमादेश । प्रियवशे ॥ प्रिये वशे च कर्मण्युपपदे वदधातोः खजित्यर्थ’ । खशि प्रकृते खज्विधरुत्तरसूत्रे प्रयोजन वक्ष्यते । गमेस्सुपि वाच्य इति ॥ खजिति शेष । ननु सज्ञायामित्यनुवृत्तौ गमश्च' इति वक्ष्यमाणसूत्रेणैव सिद्धे किमर्थमिद वार्तिकमित्यत आह । असंज्ञार्थमिद मिति ॥ विहायस इति । विहायश्शब्दः आकाशे वर्तते । तस्मिन्नुपपदे गमे. खच । “गमश्च' इति वक्ष्यमाणसूत्रेण पूर्ववार्तिकेन वा सिद्धः खचेल्यनूद्यतेत । प्रकृतेर्विहायश्शब्दस्य विहादशो वाच्यः, सच खच् डिद्वा वाच्य इत्यर्थः । विहङ्ग इति ॥ डित्वपक्षे तत्सामथ्र्या दभस्यापि टेलोपः । विहङ्गम इति । विहायसा गच्छतीति विग्रहः । भुजङ्गम इति ॥