पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१६
[लकारार्थ
सिध्दान्तकौमुदीसहिता

२९५४ । द्विषत्परयोस्तापेः । (३-२-३९)

२९५५ । खचि हस्वः । (६-४-९४)

खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विष न्तपः । । घटघटीग्रहणालिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । परन्तप द्विषतीं तापयतीति द्विषतीतापः ।

२९५६ । वाचि यमो व्रते । (३-२-४०)

वाकन्छच्ठद उपपद यमः खच्छस्याद्रत गम्य ।

२९५७ । वाचंयमपुरन्द्रौ च । (६-३-६९)

वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । 'ब्रते' किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ।

२९५८ । पूःसर्वयोर्दारिसहोः । (३-२-४१)



भुजेगेच्छतीति विग्रहः । द्विषत्परयो ॥ ‘तप दाहे 'चुरादिः “तप सन्तापे' म्वादिः । द्वयोरपि ण्यन्तयोस्तापेरिति निर्देशः । खच् स्यादिति ॥ द्विषत्, पर, अनयोः कर्मणोरुपपदयोः तापेः खजित्यर्थः । द्विषत् तापि अ इति स्थिते आह । खचि हृस्व ॥ 'दोषेो णौ' इत्यतो णाविति ‘ऊदुपधायाः’ इत्यत. उपधाया इति चानुवर्तते । तदाह । खच्परे णाविति ॥ खशि प्रकृते खवो विधिरिह हस्वार्थ णिलोपार्थश्च । खाश तु तदुभयन्न स्यात् । खशशित्वेन सार्वधातुकतया णिलोपासम्भवात् । न च इहैव सूत्रे खज्विधीयता पूर्वसूत्रे खशवानुवर्ततामिति वाच्यम्, अन्यतोऽपि विधानार्थत्वात् । एवञ्च 'गमेस्सुपि' इति वार्तिकम् एतलब्धार्थकथनपरमेवेत्याहुः । द्विषन्तप इति ॥ “अरुषित्' इति तकारात्प्राक् मुम् । परन्तप इति ॥ परः शत्रु । ननु लिङ्गविशिष्टपरिभाषया द्विषतीशब्देऽप्युपपदे तापेः खचि द्विषतीतप इति स्यात् । द्विषतीताप इत्यण्णन्तन्न स्यात् इत्यत आह । घटघटीति ॥ “शक्तिलाङ्गलाडुशयष्टितोमरघटघटीधनुष्षु गृहेरुपसङ्खयानम्' इत्यत्र घटग्रहणेनैव लिङ्गविशिष्टपरिभाषया घटीशब्दस्यापि सिद्धं पुनर्घटी ग्रहणात् लिङ्गविशिष्टपरिभाषा अनित्यति विज्ञायते इत्यर्थः । उपपदविधी लिङ्गविशिष्ट परिभाषा नेति डयाप्सूत्रे भाष्याचेत्यपि द्रष्टव्यम् । वाचि यमो व्रते ॥ इत्याद व्यक्तम् । वाचंयमपुरन्दरौ च ॥ वाक्पुरोरिति ॥ वाच यच्छतीति पुर दारयतीति च विग्रहे यमर्दारेश्च खच् । सुपो लुकि वाच् यम्, पुर् दार, इति स्थिते वाक्पुरोरमन्तत्वन्निपात्यते इत्यथ । “अरुद्विषदजन्तस्य' इति मुमस्तु न प्रसक्तिः । पूस्सर्वयोर्दारेिसहोः ॥ दारि सहोरिति पञ्चम्यर्थे षष्ठी । पुरिशब्द सर्वशब्दे च कर्मवाचिन्युपपदे दारेस्सहेश्च खजित्यर्थ. ।