पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१४
[लकारार्थ
सिध्दान्तकौमुदीसहिता


२९४५ । नाडीमुष्टयोश्च । (३-२-३०)

एतयोरुपपदयोः कर्मणोध्मौधेटोः खश् स्यात् । 'यथासङ्खयं नेष्यते' । नाडिन्धम:-नाडिन्धयः । मुष्टिन्धम:-मुष्टिन्धय । “घटीखारीखरंपूपसङ्खया नम्’ (वा २००८) । घटिन्धमः-घटिन्धयः इत्यादि खारी परिमाणविशेषः । खरी गदेभी ।

२९४६ । उदि कूले रुजिवहोः । (३-२-३१)

उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश स्यात् । कूलमुद्रुज तीति कूलमुदुजः । कूलमुद्वहः ।

२९४७ । वहात्रे लिहः । (३-२-३२)

वहः स्कन्धस्तं लेढीति वहंलिहो गौ । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुण: । अभ्रंलिहो वायुः ।

२९४८ । परिमाणे पचः । ३-२-३३)

प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ।

२९४९ । मितनखे च । (३-२-३४)

मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ।

२९५० । विध्वरुषोस्तुदः । (३-२-३५)

विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः।


नासिकायाः ध्मश्वति चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति । नासिकन्धय इति ॥ नाडी मुष्टयोश्च ॥ यथासङ्ख-यन्नेष्यते इति ॥ इदन्तु भाष्ये स्पष्टम् । घटीखारीति ॥ इत्यादि स्पष्टम् । उदि कूले ॥ उदीति दिग्योगपञ्चम्यर्थे सप्तमी । रुजिवहोरिति पञ्चम्यर्थे षष्ठी । ‘रुजो भङ्गे' तुदादिः । अत्र रुजेस्सकर्मकत्वात् कर्मण्युपपदे इति लब्धम्। तेन कूल विशेष्यते, नतु उच्छब्दः । तस्य असत्त्ववावित्वात् । तदाह । उत्पूर्वाभ्यामित्यादि । कूलमुदुज इति ॥ सुपो लुकि मुमिति भावः । वहाभ्र लिहः ॥ वहे अत्रे च कर्मण्युपपदे लिहः खशित्यर्थः । वहशब्दस्य विवरणम् । स्कन्ध इति ॥ शपो लुगिति ॥ खशशित्वेन सार्वधातुकत्वात् कृतस्य शपो लुगित्यर्थः । परिमाणे पचव ॥ परिमाण प्रस्थादि । तामिन् कर्मण्युपपदे पचेः खशित्यर्थः । खारिम्पचः इति ॥ 'खिल्यनव्ययस्य' इति हृस्वः । मुम्। मितनखे च ॥ मिते नख च कमण्युपपद पचः खाशल्यथ । नखाना वाहकत्यसम्भवादाह । पाचवरत्रात ॥ विध्वरुषोस्तुदः ॥ विधु, अरुस्, अनयोः कर्मणोरुपपदयोः तुदः खशित्यर्थः । विधुन्तुद इति ॥ विधुश्चन्द्रः तं तुदतीति विग्रहः । राहुरित्यर्थः । अरुस्शब्दे उकारादुपरि मुमि कृते