पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
५०५
बालमनोरमा ।

मांसभक्षा । कल्याणाचारा । *ईक्षिमिभ्याश्च' (वा १९८१) । सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति।

२९१४ । हावामश्च । (३-२-२)

एभ्यः अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ।

२९१५ । आतोऽनुपसर्गे कः । (३-२-३)

आद्न्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाणु । “ आतो लोप ' । गोदः । पाष्णिवम् । “ अनुपसर्गे' किम् । गोसन्दायः । “ कविधैौ सर्वत्र संप्रसारणिभ्यो ड:' (वा १९८४) । ब्रह्म जिनाति ब्रह्मज्य । सर्वत्रग्रहणा दातश्चोपसर्गे आह्वः । प्रह्वः ।

२९१६ । सुपि स्थः । (३-२-४)


मास भक्षयते इति विग्रहः । कल्याणाचारेति । कल्याणमाचरतीति विग्रहः । सर्वत्र टापु । ईक्षिामिभ्यामिति । वार्तिकमिदम् । ण इति शेष । कथमिति ॥ कर्मण्याण गङ्गाधार इत्यादि स्यादित्याक्षेप । कर्मणश्शेषत्वेति ॥ तथाच कर्मोपपदाभावान्नाणिति भावः । ह्यावामश्च ॥ “हेञ् स्पर्धायाम्, वेञ् तन्तुसन्ताने' अनयोः कृतात्वयोर्निर्देश , 'माङ् माने एषान्द्वन्द्वात्पञ्चम्येकवचनम् । एभ्य इति ॥ कर्मण्युपपदे एभ्यः अण् स्यादित्यर्थः । ननु “कर्मण्यण्' इत्येव सिद्धे किमर्थमिदमित्यत आह । कापवाद् इति ॥ “आतोऽनुपसर्गे क इत्यस्याणपवादस्य वक्ष्यमाणस्य बाधनार्थमित्यर्थः । माङ्मेडोरिह ग्रहणम्, नतु 'मा माने इत्यस्य, अकर्मकत्वात् । स्वर्गह्वाय इति । यद्यपि पराभिभवच्छाया स्पद्धया पराभिभवस्य कर्मणो धात्वर्थत्वेनोपसङ्गहादकर्मक इत्युक्तम् । तथापि इह पराभिभवेच्छा धात्वर्थः । स्वर्ग मभिभवितु वाञ्छतीत्यर्थ । अन्तरङ्गत्वादात्वे कृते आतो युक । एवमग्रेऽपि । अातोऽनुप सर्गे कः ॥ पार्षिणत्रमिति ॥ पार्टिण. पादमूलभाग । त त्रायते इति विग्रह । “त्रैड् पालने' आत्वे कृते कः । गोसन्दाय इति । अण्यातो युक् । कविधौ सर्वत्रेति ॥ वार्तिकमिदम् । सर्वत्र कप्रत्ययविधौ सम्प्रसारणाहेभ्यः कापवादो डप्रत्ययो वाच्य इत्यर्थः । ब्रह्मज्य इति ॥ ‘ज्या वयोहानौ' अस्माडु । डित्वसामथ्योदभस्यापि टेलॉप । अत्र कप्रत्यये सति कित्वात् 'ग्रहिज्या' इति सम्प्रसारणम्प्रसक्तम् । अतो ड एव नतु कः । सर्वत्रेति ॥ उपसर्गे उपपदे आतोऽपि ड एव । नतु “ आतश्चोपसर्गे' इति कः । सर्वत्र प्रहणादित्यन्वयः । अन्यथा अनन्तरस्य विधिरिति न्यायात् ‘आतोऽनुपसर्गे क:’ इत्येव बाध्यत, नतु ‘आतश्चोपसर्गे' इति कप्रत्यय इति भावः । आह्वः, प्रह्व इति । अत्र ‘आतश्चोपसर्गे' इति कम्बाधित्वा ड एव । तस्य अकित्वाद्यजादिलक्षण सम्प्रसारणन्न । सुपि स्थ ॥ योगो 64