सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०६
[कृदन्त
सिध्दान्तकौमुदीसहिता


सुपीति योगो विभज्यते । सुप्युपपदे आद्न्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थ । तत: 'स्थः' । सुपि तिष्ठतेः कः स्यादारम्भसामथ्र्याद्भावे । आखूनामुत्थानमाखवूत्थ ।

२९१७ । प्रष्ठोऽग्रगामिनि । (८-३-९२)

प्रतिष्ठत इति प्रष्टो गौ । अग्रतो गच्छतीत्यर्थः । “ अग्र-' इति किम् । प्रस्थ ।

२९१८ । अम्बाम्बगोभूमिसव्येऽपद्वित्रिकुशेकुशङ्कङ्गुमञ्जिपुञ्जि परमेबर्हिर्दिव्यग्भ्यिः स्थः । (८-३-९७)

स्थः ' इत कप्रत्ययान्तस्यानुकरणम् । षष्ठयथ प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्टः । त्रिष्टः । इत ऊध्र्व कर्मणि सुपिति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य सम्बन्धः ।


विभज्यते इति । इद् भाष्ये स्पष्टम् । तत्र सुपीत्यश व्याचष्ट । सुप्युपपदे इति ॥ इदङ्केवलोपसर्गे व्यर्थम् । “आतश्चोपसर्गे' इत्येव सिद्धे । कमण्युपपदऽप्यतव्यथमव , “आतो ऽनुपसर्गे क.’ इत्यारम्भादिति मत्वोदाहरति । द्वाभ्यामिति ॥ तत इति ॥ सुपीत्यंशस्य व्याख्यानानन्तर स्थ इत्यशा व्याख्यायत इत्यथ । ननु सुपि इत्यंशेनैव सिद्धे किमर्थमिद मित्यत आह । आरम्भसामथ्र्यादिति ॥ कर्तरि “सुपि' इति पूर्वेण सिद्धेरिह 'कर्तरि कृत् इति नानुवर्तते । अनिर्दिष्टार्थत्वात् “गुप्तिज्किन्यस्सन्’ इत्यादिवत् स्वार्थिकोऽयम् । स्वार्थश्च भाव एवति भाष्ये स्पष्टम् । नच एव सति “घञ्जर्थे कविधानम्' इत्येव सिद्धमिति वाच्यम् । नित्योपपदसमासार्थत्वात्। अत एव ल्युडन्तेन अस्वपदविग्रहन्दर्शयन्नाह। आखूनामुत्थानम् अाखवूत्थ इति ॥ प्रष्टोऽग्रगामिनि । प्रपूत्रात् स्थाधातोः “ आतश्चोपसर्गे' इति कप्रत्यये आतो लोपे प्रस्थशब्दः । सः अग्रगामिनि वाच्ये कृतषत्व' निपात्यते । इणकवर्गाभ्यां परत्वा भावात् षत्वस्य न प्राप्तिः । प्रतिष्ठत इति ॥ अग्रे गच्छतीत्यर्थ, उपसर्गवशात् । प्रष्टो गौरिति ॥ अग्रगामीत्यर्थः । एव प्रष्टोऽश्व इत्यादि । अम्बाम्ब ॥ अम्ब, आम्ब, गो, भूमि, सव्य, अप, द्वि, त्रि, कुशे, कु, शडु, अडु, मञ्जि, पुञ्जि, परमे, बर्हिस्, दिवि, अग्नि, एषामष्टा दशाना द्वन्द्वः । अम्बष्ठः आम्बष्ठः गोष्ठ भूमिष्ठ । सव्येष्ठ निपातनादलुक् । “हलदन्तात्सप्तम्या: इति वा । अपष्ठः । एषु कतिपयेषु इण्कवर्गाभ्यां परत्वाभावात् षत्वस्य न प्राप्ति. । कतिपयेषु सात्पदाद्योः' इति निषेध प्राप्तः । एवमग्रेऽपि । द्विष्ट इति ॥ द्वाभ्यान्तिष्ठतीति विग्रहः । एवं त्रिष्टः, कुशेष्ठः, कुष्ठः, शङ्कष्टः, अडुष्टः, मञ्जिष्ठः, पुञ्जिष्ठः । परमेष्ठः, निपातनादलुक् हलन्दात्’ इति वा । बर्हिष्ठः । दिविष्ठः पूर्ववदलुक्। अन्निष्ठः । कप्रत्ययान्तस्येति किम् । भूमिस्थितम् । इत ऊध्र्व मिति ॥ *तुन्दशोकयोः' इत्यारभ्येत्यर्थः । सुपीत्यस्येति ॥ नतु कर्मणीत्यस्य, असम्भवादिति 'सम्प्रत्युफ्लभ्यमानकाशिकावृत्तौ तु कुष्ठः शेकुष्टः इत्युपलभ्यते ।