सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०४
[कृदन्त
सिध्दान्तकौमुदीसहिता


हाको हाङश्च प्युट् स्यात् त्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्तप्रोतीति वा ।

२९११ । पुसृल्वः समभिहारे बुन् । (३-१-१४९)

समाभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवक । सरकः । लवकः ।

२९१२ । आशिषि च । (३-१-१५०)

आशीर्विषयार्थवृत्तवुन्स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात्-नन्द् कः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्ति । इति तृतीयाध्यायस्य प्रथमः पादः ।

२९१३ । कर्मण्यण् । (३-२-१)

कर्मण्युपपदे धातोरण्प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भकारः । आदित्यं पश्यतीत्यादावनभिधानान्न । * ोलिकामिभक्ष्याचरिभ्यो ण:' (वा १९८०) । अणोऽपवादार्थ वार्तिकम् । मांसशीला । मांसकामा ।


तदाह । हाको हाङश्चेति ॥ मुस्सृल्वः ॥ लक्ष्यते इति । एतच भाष्ये स्पष्टम् । पु, स्ट, लु, एषां समाहारद्वन्द्वात्पञ्चमी । आशिषि च । जीववक इति । आशास्यमानजीवनक्रिया श्रय इत्यर्थः । एवन्नन्दकः । आशीरिति ॥ आशासनम् अयमित्थभूयादिति प्रार्थन शब्दप्रयो वक्तृकर्तृकमिति यावत् । तत आशासितुः पित्रादेरियमुक्तिः । इयं नन्दकशब्दप्रयोग इत्यर्थः औचित्यादिति भाव

इति तृतीयाध्यायस्य प्रथमः पादः ।

अथ तृतीयाध्यायस्य द्वितीयः पाद -कर्मण्यण् ॥ कर्मण्युपपदे इति ॥“तत्रोपपदं सप्तमीस्थम्’ इत्यत्र तत्रेत्यनेनेद लभ्यत इति तत्रैवोक्तम् । प्रत्ययस्तु कर्तर्येव । उपपदसमास इति ॥ 'उपपदमतिड्’ इत्यनेनेति भावः । कुम्भङ्करोतीति ॥ अस्वपदो लौकिकविग्रहो ऽयम् । कुम्भ अस् कार इत्यलौकिकविग्रहवाक्ये सुबुत्पत्तेः प्रागेव कारशब्देन कृदन्तेन कुम्भ अस् इति षष्ठयन्तस्य समास इति प्रागेवोक्तम् । ननु आदित्यम्पश्यतीत्यादित्यदर्शः, हिमवन्तं श्रृणोतीति हिमवच्छावः, प्रामङ्गच्छतीति प्रामगामः, इत्यादि स्यादित्यत आह । आदित्य म्पश्यतीत्यादावनभिधानान्नेति ॥ एतच भाष्ये स्पष्टम् । शीलीति ॥ शीलि, कामि , भक्षि, आचरि, एभ्यो णप्रत्ययो वाच्य इत्यर्थः । ननु ‘कर्मण्यण्’ इत्यणैव सिद्धे किमर्थमिदमित्यत आह । अणोऽपवादार्थमिति ॥ अणन्तत्वे तु डीप् स्यात् । तन्निवृत्त्यर्थ णविधानमिति भावः। तदाह । मांसशीलेति ॥ ‘शील समाधौ' इति भ्वादिः । इह तु स्वभावतस्सेवने वर्तते । मास स्वभावतस्सेवमानेत्यर्थः । मांसकामेति ॥ मांसङ्कामयते इति विग्रहः । मांसभक्षेति ॥