पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४९३
बालमनोरमा ।


२८९२ । अझैौ परिचाय्येोपचाय्यसमूह्याः । (३-१-१३१)

अग्मिधारणार्थे स्थलविशेषेप एते साधवः । अन्यत्र तु पारचयम् । उप चयम् । सवाह्यम् ।

२८९३ । चित्यानिचित्ये च । (३-१-१३२)

चीयतेऽसँौ चिल्योऽग्मि : । अग्रेश्वयनमििचत्या । ८ प्रेषातिसर्गप्राप्त कालेषु कृत्याश्च' (सू २८१७) । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लाटा बाधा मा भूदात पुनः ऋलयावाध * स्रयधिकारादूध्वै वासरूप विधिः कचिन्न' इति ज्ञापयति । तेन “क्तल्युट्तुमुन्खलर्थेषु न-' इति सिद्धम् ।


अधिकरणे ण्यत् । आतो युक् । सञ्चाय्य इति । सम्पूर्वात् विज्रः कर्मणि ण्यत् आयादेशश्च निपात्यते इति भावः । सञ्चाय्यो नाम क्रतुविशेष. कविच्छाखायामन्वेषणयः । अौ परिचाय ॥ अझैौ गम्य परिचाय्य, उपचाय्य समूह्य, एते निपात्यन्त । अन्निशब्द इष्टकारवित स्थण्डिलविशेषे वर्तते । “इष्टकाभिरन्निाचिनोति' इति श्रुतः इष्टकाकृतचयनेन अन्नयाख्य स्थण्डिलं निष्पादयेदित्यर्थः । “ ब्रह्मवादिना वदन्ति यन्मृदाचाद्रिश्वान्निश्चीयतेऽथ कस्मादन्निरुच्यत इति यच्छन्दोऽभिश्चिनोत्यन्नये वै छदसि तस्मादन्निरुच्यतऽथो इय वा अन्निवैश्वानरो यन्मृदाचिनोति तस्मादनिरुच्यते ” इति वाक्यशेषाञ्च । तदाह । अधिारणेति ॥ तत्र परिपूर्वदुपपूर्वाञ्च विज. कर्मणि ण्यत् आयादशश्च निपात्यते । सम्पूर्वस्य वहतु कर्मणि ण्यात सम्प्रसारणम् दीर्घश्च निपात्यते । “ममूह्यञ्चिन्वीत पशुकाम. परिचाय्यञ्चिन्वीत ग्रामकाम.” इति तैत्तिरीय श्रुतौ परिचाय्यसमूहौ प्रसिद्वैौ । उपचाय्यस्त्वनिः क्रविच्छाखायामन्वेषणीयः । चित्याश्चिचित्ये च ॥ विल्यश्च अन्निचिल्या चेति द्वन्द्वः। अझैौ निपात्यते । चिल्योऽग्निरिति । कर्मणि ण्यन् तुक्च निपात्यते । अझेश्वयनामिति । अग्निशब्दे षष्ठयन्ते उपपद विणेो ण्यत् तुक् च, स्रीत्व लोकात् । प्रैषातिसर्ग' इति व्याख्यातमपि स्मार्यते । गम्यमिति ॥ “पेोरदुपधात्' इति ण्यदपवाद क्यप् । ननु सामान्येन भावकर्मणेोर्विहिताना कृत्यानाम्प्रैषादिषु तदभावे च सिद्धे प्रैषादिषु कृत्य विधिव्र्यर्थ इत्यत आह । लोटा बाधा इति ॥ इह प्रैषादिषु कृत्यविध्यभावे लाट चेति प्रैषादिषु लोटा विशेषविहितेन कृत्याना बाधः स्यात् । कृत्यानाम्प्रैषाद्यभावे भावकर्मणेोश्चरितार्थत्वात् । अतः प्रैषादिषु कृत्यानां लोटा बाधानिवृत्तये पुनः कृल्यविधिरित्यर्थः । ननु वासरुपाविधिनैव लोटा प्रैषादिषु कृत्याना बाधेो न भविष्यतीत्यत आह । त्रयधिकारादूध्वं त्रियां क्तिन्’ इत्यूध्र्वमित्यर्थः । ‘प्राक् त्रियाः वासरूपविधि.' इति भाष्यम्। ननु स्रयधिकारादूध्वं बासरूपाविधेरप्रवृत्तौ ‘त्रिया क्तिन्’ इति सामान्यविहितस्य क्तिनः 'षिद्रिदादिभ्योऽङ्’ इति विशेषविहितेन नित्यबाधस्यात्, ततः क्षमा क्षान्तिः, भिदा भित्तिरित्यादि न स्यात् इत्यत आह । कचिन्नेति । कचिदित्यस्यानिर्धारणादाह । तेन क्तल्युट्तुमुन्खलर्थेषु नेति