पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९२
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता


२८८९ । प्रणाय्योऽसंमतैौ । (३-१-१२८)

संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वाद्रोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणायोऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ।

२८९० । पाय्यसाझाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु । (३-१-१२९)

मीयतेऽनेन पाय्यं मानम् । पण्यत् धात्वादेः पत्वञ्च । * आतो युक् (सू २७६१) इति युक् । सम्यङ् नीयते होमार्थमन्नेि प्रतीति सान्नाय्यं हवि र्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकाय्यो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वञ्च निपात्यते । धीयतऽनया समिदिति धाय्या ऋक् ।

२८९१ । ऋतैौ कुण्डपाय्यसञ्चाय्यौ । (३-१-१३०)

कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्य: क्रतुः । सञ्चीयतेऽसौ सञ्चाय्य: ।


तथाविधदक्षिणाप्रैौ वाच्ये आनेयशब्द एवेति भावः । प्रणाय्योऽसम्मतैौ ॥ असम्मतौ गम्यायां प्रणाय्य इति निपात्यते । तत्र असम्मतिशब्दैकदेश सम्मतिशब्द विवृणोति । सम्मति ीतिविषयीभवनमिति । तच कर्मनिष्ठमित्याह । कर्मव्यापार इति ॥ तथेति ॥ भोगेषु सुखदु खानुभवेषु आसक्तिरपि सम्मतिरित्यर्थः । एवविधा सम्मतिर्न भवतीति असम्मति रिति फलितम् । प्रणायश्चोर इति ॥ ण्यति वृद्धौ आयादेश . । पायसान्नाय ॥ पाय्य, सान्नाय्य, निकाय्य, धाय्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् । मान, हवि., निवास सामिधेनी एषान्द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्त । मीयते अनेनेति । माधातोः करणे ण्यत्, धात्वादेर्मकारस्य पत्वञ्च निपात्यते इत्यर्थः । अात इति ॥ ण्यति 'मीनाति' इत्यात्वे कृते, आतो युगिति भावः । पण्यादात । सम्पूर्वात् नीधातोः कर्मणि निपात्यते इत्यर्थः । आयादेश इति ॥ सन्नी य इति स्थिते आयादेशः निपात्यते इत्यन्वयः । निवास इति ॥ कुसूलादिरित्यर्थः । अधिकरणे इति ॥ चिञ्धातोराधिकरणे ण्यन्निपात्यते इत्यन्वयः । आय् इति ॥ अच्परकत्वाभावात् आयादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति ॥ धाधातोः करणे ण्यति, आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समि दाधानार्था ऋग्विशेषा । तत्र ‘समिध्यमानो अध्वरे’ इति ऋच उपरि प्रक्षेप्या ‘पृथुपाजा अमल्यै इत्याद्या ऋक्प्रसिद्धा । क्रतौ कुण्डपाय्य । क्रतुविशेषे गम्ये एतैौ निपात्यते । कुण्डेनेति ॥ अत्सरुकै. चवमसैरित्यर्थ । सामान्येनैकवचनम् । “यदत्सरुकैश्वसमैर्भक्षयन्ति तदेषाँ कुण्डम् इति श्रुतिः । कुण्डपाय्य इति ॥ सत्रविशेषात्मकः क्रतुः । कुण्डेनेति तृतीयान्ते उपपदे