पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८२
[कृद्न्त
सिध्दान्तकौमुदीसहिता


इति स्मृते । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थ । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृडो यत् । शतेन वयो कन्या । घृत्यान्या ।

२८५० । वह्य करणम् । (३-१-१०२)

वहन्त्यनेनेति वह्य शकटम् । “करणम्’ वकम् । वाह्यम्-वोढव्यम् ।

२८५१ । अयैः स्वामिवैश्ययोः । (३-१-१०३)

'ऋर गतौ' अस्माद्यत् । ण्यतोऽपवादः । अर्यः स्वामी वैश्यो वा । अनयोः' किम् । आयों ब्राह्मणः प्राप्तव्य इत्यर्थः ।

२८५२ । उपसर्या काल्या प्रजने । (३-१-१०४)

गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थ वृषभेः णोपगन्तुं योग्येत्यर्थ । 'प्रजने काल्या' इति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थ ।

२८५३ । अजयै सङ्गतम् । (३-१-१०५)


पणधातोव्यैवहारार्थकात् यन्निपात्यते इति भावः । यद्यपि “पण व्यवहारे स्तुतौ च' इति धातो अर्थद्वयमस्ति । तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्यते । तदाह । व्यवहर्तव्येति ॥ केतव्यत्यर्थः । पाण्यमन्यदिति ॥ ण्यति उपधा वृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह । स्तुत्यर्हमिति ॥ अप्रतिबन्धः इति । अनियम इत्यर्थः । वृडो यदिति । “वृड् सम्भक्ता' इति क्रेयादिकस्यैवात्र ग्रहणम् । नतु “वृञ् वरणे' इत्यस्य । अनिरोधरूपार्थस्य सम्भक्तिवावित्व एव सामञ्जस्यादिति भावः । शतेन वय कन्येति ॥ पुरुषशतेन परिग्रहीतुमर्ह । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थ । 'एतिस्तुशास्पृदृजुषः क्यप्' इति क्यपि तुक् । अत्र अनियमस्य अप्रतीतेः न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि वार्या ऋत्विज इति वृत्तिः । वह्यङ्करणम् । वहेः करणे यत् निपात्यते । ण्यतोऽपवादः । अयैः स्वामि वैश्ययोः । अस्माद्यदिति । निपात्यत इति शेषः । ण्यतोऽपवाद् इति ॥ 'ऋहलो:’ इति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः । यति ऋकारस्य गुणे रपरत्वम् । तदाह । अयैः स्वामीति । ण्यति वृद्धेौ रपरत्वमिति भाव उपसर्या । प्रजनन प्रजन गर्भप्रहृणम् । भावे घञ्, ‘जनिवध्योश्च' इति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या । तदस्य प्राप्तमित्यनुवर्तमाने 'कालाद्यत्’ इति यत् । चेदित्यध्याहार्यम् । तदाह । गर्भग्रहणे प्राप्त काला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिः विवक्षिता चेवत उपसर्या इति निपात्यते । उपपूर्वात सृधातोः यदिति फलितम् । ण्यतोऽपवादः । अजर्यम् । कर्तरेि