पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
४८१
बालमनोरमा ।

२८४८ । गद्मद्चवरयमश्चानुपसर्गे । (३-१-१००)

गद्यम् । मद्यम् । चर्यम् । चरराडि चागुरौ' (वा १९२५) । आचर्यो देश: । गन्तव्य इत्यर्थः । “ अगुरौ' किम् । आचार्यो गुरुः । यमे नियमार्थम् । सोपसर्गान्मा भूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव । तेन “तत्र न भवेद्विनियम्यम्' (वा १९३०) इति वार्तिकप्रयोगात् । एतेन ? अनि यम्यस्य नायुक्तिः' । “त्वया नियम्या ननु दिव्यचक्षुषा' इत्यादि व्याख्यातम् । नियमे साधुरिति वा ।

२८४९ । अवद्यपण्यवर्या गर्हपणितव्यानिरोधेषु । (३-१-१०१)

वदेर्नञ्युपपदे * वदः सुपि—' (सू २८५४) इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गह्वयामेवेत्युभयाथै निपातनम् । अवचं पापम् । “गहॅ' किम् । आत्मनाम गुरानोम नामातिकृपणस्य च । श्रयस्कामा न गृहंयाज्यष्ठापत्यकलत्रया। ।।'


यदित्यर्थः । ण्यतोऽपवादः । गद्मद् ॥ गद, मद, चर, यम, एषाश्चतुर्णा द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । प्यतोऽपवाद । उपसर्गातू ण्यदेव । प्रगाद्य मित्यादि । चरेराङि चागुराविति । वार्तिकमिदम् । आडि उपसर्गे सत्यपि चरेर्यत्स्यादगुरौ इत्यर्थः । आचाय गुरुरिति । शुश्रूषणीयः इत्यर्थः । ननु “पेोरदुपधात्’ इत्येव मिद्धे यमेरिह प्रहणं व्यर्थमित्यत आह । यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यर्थः । तत्फलमाह। सोपसर्गान्मा भूदिति ॥ ननु 'अनियम्यस्य नायुक्तिः’ इत्यत्र 'त्वया नियम्या ननु दिव्यचक्षुषा’ इत्यादौ च निपूर्वाद्यमेः कथं यत् । अनुपसर्गादिति निषेधादित्यत आह । निपू वत्स्यादेवेति । यदिति शेषः । कुत इत्यत आह । तेन तत्रेति ॥ प्रकारान्तरेण समाधत्ते । नियमे साधुरिति वेति ॥ ‘यमः समुपनिविषु च' इति निपूर्वोद्यमेभौवे अप्प्रत्यये नियम शब्दः । नियम साधुरित्यर्थे 'तत्र साधुः’ इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः । अवद्यपण्य ॥ अवद्य, पण्य, वर्य, एषान्द्वन्द्वात्प्रथमाबहुवचनम् । गह पणितव्य अनिरोध एषान्द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयत्रयः क्रमात् गह्यर्थादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदस्सुपि' इत्येव सिद्धे अवद्यग्रहण व्यर्थमित्यत आह । नञ्युपपदे इति ॥ यत्क्यपोः स्वरे विशेषः । सम्प्रसारणतदभावौ चेति भावः । अवद्यां पापमिति ॥ गर्हितत्वा दवाच्यमित्यर्थः । अनुद्य गुरुनामेति ॥ अत्र नजि उपपदे “वदस्सुपि’ इति क्यपि ‘वविस्वपियजादीनाङ्किति’ इति सम्प्रसारणे रूपम् । वचनानर्हमित्यर्थः । अत्र गहयाः अप्रतीते यदेवेति न नियम इति भावः । ननु गुरुनान्नः अगर्हत्वात् कथं वचनानर्हत्वमित्यत आह । तद्धि न गह वचनानर्हश्चेति ॥ कुत इत्यत आह । आत्मनामेति ॥ पण्या गौरिति । 61