पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-३).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८०
[कृदन्तकृत्य
सिध्दान्तकौमुदीसहिता

जनिवध्योश्च' (सू २५१२) इति निषेधात् । “हनो वा यद्वधश्च वक्तव्यः (वा १९२३) । वध्य । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ।

२८४४ । पोरदुपधात । (३-१-९८)

पवगान्ताद्दुपधाद्यत्स्यात् । ण्यताऽपवादः । २ाप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम्' । अतो न ण्यत् । तव्यदाद्यस्तु स्युरेव ।

२८४५ । आडो यि । (७-१-६५)

आङः परस्य लभेर्नुम्स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृते अदुपधत्वा भावात ण्यदेव । आलम्भ्यो गौ । २ाक्यम् । सह्यम् ।

२८४६ । उपात्प्रशंसायाम् । (७-१-६६)

उपलम्भ्यः साधुः । * स्तुतौ' किम् । उपलव्धुं शक्यः उपलभ्य: ।

२८४७ । शकिसहोश्च । (३-१-९९)


वद्धोरिति ॥ हनो वेति ॥ हनधातोर्यद्वा स्यात् । प्रकृतेर्वधादेशश्वत्यर्थः । पक्षे इति ॥ यद भावपक्षे इत्यर्थः । घालयः इति ॥ ण्यति ‘हनस्ताऽचिण्णलोः' इति नस्य त । आत्त्वम् । उप धावृद्धिः । वधादेशस्तु यत्सन्नियोगशिष्टत्वान्नेति भावः । पोरदुपधात् । ननु शप्य लभ्यमि त्यत्र ‘ऋहलोण्र्यत्' इति कदा चित् ण्यदपि स्यात् । यत्ण्यतेोरसारूप्येण वाऽसरूपः इत्यस्य प्रवृत्ते रित्यत आह । नानुबन्धकृतमस्सारूप्यमिति । वाऽसरूपसूत्रे भाष्ये स्थितमिदम् । अनु बन्धविनिर्मुक्तस्यैव असारूप्य विवक्षितमित्यर्थ । प्रकृते च यत्ण्यतोरनुबन्धरहितयेोस्सारूप्यात् वासरूपविधरप्रवृते. शायमित्यादौ ण्यदपवादो यदेवेति भावः । आाडो यि ॥ ‘इदितो तुं धातो: इत्यते नुमिति “लभेश्च' इत्यतो लभरिति चानुवर्तते । तदाह । आङः परस्येति । विवक्षिते इति ॥ यीति विषयसप्तमीति भाष्ये स्पष्टम् । विवक्षिते इत्यस्य प्रयोजनमाह । नुमि कृते इति ॥ यत्प्रत्यये विवक्षिते तत्प्रवृत्ते प्रागेव नुमि कृते अदुपधत्वाभावाद्यत्प्रत्यय स्याप्रवृत्तण्यैदेवेत्यर्थः । यति परे नुमित्यर्थे तु अदुपधत्वात् यदेव स्यात् । नतु ण्यदिति भावः । आलम्भ्यो गौरिति ॥ यद्यपि यत्ण्यतोर्न रूपभेदः । तथापि एयति कृते “तित्स्वरितम्’ इति खरितत्वम् । यति तु ‘यतो नावः’ इत्याद्युदात्तत्वमिति स्वरभेदः फलम् । उपात्प्रशंसायाम् । उपात्परस्य लभेर्नु स्यात् यादौ प्रत्यये विवक्षित प्रशसाया गम्यमानायामित्यर्थः । उपलम्भ्य स्साधुरिति ॥ समीपे प्राप्यः इत्यर्थः । साधुशब्दात् प्रशंसा गम्यते । इहापि नुमि कृत अदुपधत्वाभावात् ण्यदेव । स्वरे विशेषः पूर्ववत् । शकिसहोश्च ॥ पञ्चम्यर्थे षष्ठी । आभ्या